पितापुत्रयोः प्रेमभावस्य झलकं प्रदर्शयन्ति ‘रामायणम्’ इत्यस्य नवीनानि भित्तिचित्राणि।
मुंबई, 10 अक्टूबरमासः (हि.स.)। निर्देशकस्य नितेशतिवारिणः चलचित्रं ‘रामायणम्’ इत्येतद् प्रति दर्शकानाम् उत्सुकता निरन्तरं वर्धते। चलचित्रस्य निर्मातारः अधुना अरुणगोविलं महाराजदशरथरूपेण तथा रणबीरकपूरं भगवान् श्रीरामरूपेण प्रदर्शयन्तः नवीनानि पोस्टर
रामायण - फोटो सोर्स एक्स


रामायण - फोटो सोर्स एक्स


मुंबई, 10 अक्टूबरमासः (हि.स.)।

निर्देशकस्य नितेशतिवारिणः चलचित्रं ‘रामायणम्’ इत्येतद् प्रति दर्शकानाम् उत्सुकता निरन्तरं वर्धते। चलचित्रस्य निर्मातारः अधुना अरुणगोविलं महाराजदशरथरूपेण तथा रणबीरकपूरं भगवान् श्रीरामरूपेण प्रदर्शयन्तः नवीनानि पोस्टरचित्राणि प्रकाशितवन्तः। एतेषु पोस्टरचित्रेषु पितापुत्रयोः भावनात्मकसम्बन्धस्य झलकः दृश्यते। एकस्मिन् पोस्टरचित्रे महाराजदशरथः श्रीरामाय आशीर्वादं ददाति इति दृश्यते, यदा तु अन्यस्मिन् श्रीरामः नद्यां अस्थिविसर्जनस्य संस्कारं कुर्वन् दृश्यते। उभे दृश्ये श्रीरामस्य जीवनसम्बद्धान् भावपूर्णान् क्षणान् प्रस्तुतः कुरुतः।

प्रथमस्मिन् पोस्टरचित्रे श्रीरामः जानुभ्यां भूमौ उपविश्य महाराजदशरथात् आशीर्वादं गृह्णन् दृश्यते। एतत् दृश्यं पितापुत्रयोः प्रेमविश्वासयोः सह कर्तव्यस्य प्रतिज्ञायाश्च महत्त्वमपि दर्शयति। द्वितीयस्मिन् पोस्टरचित्रे श्रीरामः नद्याः जले स्थित्वा अस्थिविसर्जनस्य संस्कारं कुर्वन् दृश्यते। प्राकृतिकदृश्यानां मध्ये चित्रितः अयं भावपूर्णः क्षणः तस्य जीवने आगामिनः कठिनकालस्य सूचनां ददाति। निर्मातारः पोस्टरचित्रैः सह लिखितवन्तः यत् पिता वचनेन पुत्रश्च कर्तव्येन बद्धः आसीत्, किन्तु उभौ अपि न जानतः स्म यत् एषा विदायिका तयोः अन्तिमा विदायिका भविष्यति।

नमितमल्होत्रस्य प्राइम फोकस स्टूडियोज इत्येतत् डीएनईजी तथा यशस्य मॉन्स्टर माइण्ड क्रिएशन्स इत्येताभ्यां सह मिलित्वा चलचित्रस्य निर्माणम् अकरोत्। चलचित्रे साईपल्लवी सीतायाः भूमिकायां, यशः रावणस्य भूमिकायां, सनीदेवलः हनुमतः भूमिकायां, रविदुबे च लक्ष्मणस्य भूमिकायां दृश्यन्ते।

द्विभागेषु निर्मीयमाणस्य ‘रामायणम्’ इति चलचित्रस्य प्रथमः भागः दीपावलीपर्वणि २०२६ तमे वर्षे, द्वितीयः भागश्च दीपावलीपर्वणि २०२७ तमे वर्षे विश्वस्य विभिन्नेषु चलचित्रगृहेषु प्रदर्शितः भविष्यति। चलचित्रमिदं हिन्दी, तमिल, तेलुगु, कन्नड, मलयालमभाषासु च प्रदर्शितं भविष्यति। एतत् आईमैक्स प्रारूपेण अपि प्रदर्शयिष्यते।

--------------

Hindusthan Samachar / Dheeraj Maithani