भारतीय-ओलम्पिक-सङ्घस्य निर्वाचनं दिसम्बरमासस्य ५ दिनाङ्के, पी. टी. उषया सुशासनस्य दिशि महत्त्वपूर्णं पदक्षेपम् इति वर्णितम्।
नवदिल्ली, 10 अक्टूबरमासः (हि.स.)।भारतीय-ओलम्पिक-सङ्घेन शनिवासरे घोषितं यत् तस्य नूतनायाः कार्यकारिणीपरिषदः निर्वाचनं २०२६ तमस्य वर्षस्य दिसम्बरमासस्य पञ्चमे दिनाङ्के भविष्यति। वर्तमानकार्यकारिणीपरिषदः कार्यकालस्य समाप्तेः पञ्चदिनानि पूर्वं भविष्यमा
भारतीय ओलंपिक संघ लोगो


नवदिल्ली, 10 अक्टूबरमासः (हि.स.)।भारतीय-ओलम्पिक-सङ्घेन शनिवासरे घोषितं यत् तस्य नूतनायाः कार्यकारिणीपरिषदः निर्वाचनं २०२६ तमस्य वर्षस्य दिसम्बरमासस्य पञ्चमे दिनाङ्के भविष्यति। वर्तमानकार्यकारिणीपरिषदः कार्यकालस्य समाप्तेः पञ्चदिनानि पूर्वं भविष्यमाणस्य अस्य निर्वाचनस्य कृते सङ्घेन देहली-चण्डीगढयोः पूर्वमुख्यनिर्वाचनाधिकारिणं सञ्जयकुमारश्रीवास्तवं निर्वाचनाधिकारी नियुक्तम् अस्ति।

आईओए-सङ्घस्य अनुसारं सम्पूर्णा निर्वाचनप्रक्रिया राष्ट्रियक्रीडाशासनाधिनियमस्य २०२५, राष्ट्रियक्रीडाशासनस्य (राष्ट्रियक्रीडानिकायानां) नियमावल्याः २०२६, सङ्घस्य संशोधितविधानस्य, प्रचलितानाम् निर्वाचनसम्बद्धोपनियमानाꣳ नियमानां च अनुरूपं सञ्चालिता भविष्यति। निर्वाचनाधिकारी क्रीडकायोगस्य, विशिष्टयोग्यतायुक्तक्रीडकानां श्रेण्याः, भारतीय-ओलम्पिक-सङ्घस्य कार्यकारिणीपरिषदश्च निर्वाचनानां निरीक्षणं करिष्यति।

आईओए-सङ्घेन एकस्मिन् वक्तव्ये उक्तं यत् सेवानिवृत्तः भारतीयप्रशासनिकसेवाधिकारी सञ्जयकुमारश्रीवास्तवः २०२६ तमस्य वर्षस्य निर्वाचनानां कृते निर्वाचनाधिकारी नियुक्तः अस्ति। सः क्रीडकायोगस्य, विशिष्टयोग्यतायुक्तक्रीडकानां, कार्यकारिणीपरिषदः च निर्वाचनानां सञ्चालनं, निरीक्षणं पर्यवेक्षणं च करिष्यति।

विशिष्टयोग्यतायुक्तक्रीडकानां सूचीकरणस्य प्रक्रिया प्रारब्धा

भारतीय-ओलम्पिक-सङ्घेन विशिष्टयोग्यतायुक्तक्रीडकानां सूचीं निर्मातुं प्रक्रिया सितम्बरमासस्य १८ दिनाङ्के आवेदनपत्राणां प्रकाशनेन प्रारब्धा आसीत्। पात्राः क्रीडकाः अक्टोबरमासस्य १८ दिनाङ्कपर्यन्तं स्वीयानि आवेदनपत्राणि आवश्यकदस्तावेजैः सह समर्पयितुं शक्नुवन्ति। ततः राष्ट्रियक्रीडाशासनव्यवस्थायाः अन्तर्गतं निर्धारितानां पात्रतासम्बद्धानां श्रेणीसम्बद्धानां च मानदण्डानाम् अनुसारं सूची निर्मास्यते।

सङ्घेन क्रीडकायोगस्य २०२६ तः २०३० पर्यन्तस्य कार्यकालाय निर्वाचनस्य अधिसूचना अपि प्रकाशिता अस्ति। अस्य निर्वाचनस्य मतदानं, मतगणना, परिणामानां घोषणा च नवम्बरमासस्य तृतीये दिनाङ्के निर्धारितानि सन्ति।

भारतीय-ओलम्पिक-सङ्घेन सूचितं यत् पात्राणां राष्ट्रियक्रीडामहासङ्घानां सदस्यैः स्वस्वविधिवत् गठितक्रीडकायोगानां माध्यमेन द्वौ क्रीडकप्रतिनिधी नामनिर्देशितव्यौ भविष्यतः। नामाङ्कनपत्राणां समर्पणस्य अन्तिमः समयः २०२६ तमस्य वर्षस्य अक्टोबरमासस्य ११ दिनाङ्के मध्याह्नोत्तरं द्विवादनपर्यन्तं निर्धारितः अस्ति।

क्रीडकायोगे दश निर्वाचिताः क्रीडकाः भविष्यन्ति, येषु पञ्च पुरुषाः पञ्च महिलाश्च भविष्यन्ति। नियमानुसारम् ओलम्पिकवर्गीयक्रीडासु प्रमुखप्रतियोगितासु च उपलब्धिं प्राप्तवतां क्रीडकानां निर्धारितं प्रतिनिधित्वम् अपि सुनिश्चितं करिष्यते।

पी. टी. उषया पारदर्शितायाः उत्तरदायित्वस्य च महत्त्वं प्रतिपादितम्

भारतीय-ओलम्पिक-सङ्घस्य अध्यक्षा पी. टी. उषा निर्वाचनप्रक्रियां सुशासनस्य सुदृढीकरणस्य दिशि महत्त्वपूर्णं सोपानम् अवर्णयत्। सा अवदत् यत् २०२६ तमस्य वर्षस्य निर्वाचनानि भारतीय-ओलम्पिक-आन्दोलनस्य सुशासनं, पारदर्शितां, उत्तरदायित्वं च सुदृढीकर्तुं महत्त्वपूर्णानि सन्ति।

उषायाः अनुसारं सङ्घस्य उद्देश्यम् एतादृशानां सुदृढानां, विश्वसनीयानां, क्रीडककेन्द्रितानां च संस्थानां निर्माणम् अस्ति, यानि ओलम्पिक-सनदः राष्ट्रियक्रीडाशासनव्यवस्थायाश्च अनुरूपं कार्यं कुर्युः। सा अवदत् यत् अनुभवीपूर्वनिर्वाचनाधिकारिणः निर्वाचनाधिकारीरूपेण नियुक्तिः स्वतन्त्रायाः, पारदर्शिन्याः, विश्वसनीयायाश्च निर्वाचनप्रक्रियायाः प्रति सङ्घस्य प्रतिबद्धतां प्रदर्शयति। सङ्घः निर्वाचनप्रक्रियायाः स्वतन्त्रतायाः पूर्णं सम्मानं कुर्वन् आवश्यकं सहकारं प्रदास्यति।

पी. टी. उषा २०२२ तमस्य वर्षस्य दिसम्बरमासस्य १० दिनाङ्के नवदेहल्यां निर्विरोधं निर्वाचिता भूत्वा भारतीय-ओलम्पिक-सङ्घस्य अध्यक्षपदं स्वीकृतवती आसीत्। सा अस्याः राष्ट्रिय-ओलम्पिक-संस्थायाः अध्यक्षपदं प्राप्तवती प्रथमा महिला अस्ति।

२०३६ तमस्य वर्षस्य ओलम्पिकक्रीडानां आयोजनस्य दावेदारीमध्ये निर्वाचनस्य महत्त्वम्

भारतं २०३६ तमे वर्षे ओलम्पिकक्रीडानाम् आयोजनस्य आकाङ्क्षां धारयति। अतः भारतीय-ओलम्पिक-सङ्घस्य कृते सुदृढशासनव्यवस्था क्रीडककेन्द्रितदृष्टिकोणश्च महत्त्वपूर्णौ मन्येते।

अहमदाबादनगरे २०३६ तमस्य वर्षस्य ओलम्पिकक्रीडानाम् आयोजनस्य सम्भावनां प्रति भारतम् अन्तरराष्ट्रीय-ओलम्पिक-समित्या सह संवादप्रक्रियायां सम्मिलितेषु सप्त इच्छुकपक्षेषु अन्यतमः अस्ति। अन्येषु पक्षेषु जर्मनी, हङ्गरी, कतार, दक्षिणकोरिया, दक्षिणाफ्रिका, तुर्किये च सम्मिलिताः सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani