मातु: कल्याणीदेव्याः मन्दिरे रविवासरात् जयघोषः, शारदीयनवरात्रमहोत्सवस्य शुभारम्भः
पुष्पैः, फलैः शाकैश्च मन्दिरस्य सज्जा, प्रतिदिनं नवदुर्गायाः दिव्यस्वरूपे दर्शनं दास्यति माता कल्याणीदेवी प्रयागराजः, १० अक्टोबरमासः (हि.स.)। शक्तिपीठे माँ कल्याणीदेव्याः मन्दिरे रविवासरे, अक्टोबरमासस्य ११ दिनाङ्के शारदीयनवरात्रमहोत्सवस्य भव्यः शु
मां कल्याणी देवी के दरबार का छाया चित्र


पुष्पैः, फलैः शाकैश्च मन्दिरस्य सज्जा, प्रतिदिनं नवदुर्गायाः दिव्यस्वरूपे दर्शनं दास्यति माता कल्याणीदेवी

प्रयागराजः, १० अक्टोबरमासः (हि.स.)। शक्तिपीठे माँ कल्याणीदेव्याः मन्दिरे रविवासरे, अक्टोबरमासस्य ११ दिनाङ्के शारदीयनवरात्रमहोत्सवस्य भव्यः शुभारम्भः भविष्यति। दशदिनात्मकस्य अस्य महोत्सवस्य अवसरे मन्दिरं भक्तिश्रद्धयोः भावनाभिः परिपूर्णं दृश्यते। मन्दिरं पुष्पैः, फलैः शाकैश्च आकर्षकरूपेण अलङ्करिष्यते। प्रतिदिनं सायं षड्वादनात् रात्रौ द्वादशवादनपर्यन्तं भक्ताः मातुः नवदुर्गास्वरूपाणां दर्शनं कर्तुं शक्ष्यन्ति। मन्दिरे वैदिकमन्त्राणां घोषे, पूजार्चने तथा शतचण्डीमहायज्ञस्य आयोजने च मध्ये श्रद्धालवः मातुः जयघोषं कुर्वन्तः सुखसमृद्ध्योः कल्याणस्य च कामनां करिष्यन्ति।

नवरात्रस्य प्रथमदिने मन्दिरे मातुः शैलपुत्रीस्वरूपेण शृङ्गारः क्रियते। प्रतिदिनं प्रातः पञ्चवादनात् पञ्चदश निमेषाधिके पण्डितश्यामजीपाठकस्य सान्निध्ये मातुः मङ्गलारती भविष्यति। तदनन्तरं दर्शनस्य भजनकीर्तनस्य च क्रमः मध्याह्नस्य एकवादनपर्यन्तं प्रचलिष्यति। ततः मातुः महाभिषेकः षोडशोपचारपूजनं च विधास्यते। विधिविधानपूर्वकं पूजनानन्तरं मातुः भव्यः शृङ्गारः क्रियते, यस्य दर्शनं श्रद्धालवः रात्रौ द्वादशवादनपर्यन्तं कर्तुं शक्ष्यन्ति।

मातुः महाआरती सायं सप्तवादने तथा शयनारती रात्रौ एकवादने पण्डितसुशील-कुमारपाठकेन क्रियते। आरार्तिक्या: समये मन्दिरपरिसरः भक्तिमयेन वातावरणेन परिपूर्णः भविष्यति।

नवरात्रस्य सम्पूर्णकाले शतचण्डीमहायज्ञः

शारदीयनवरात्रस्य अवसरे वैदिकब्राह्मणैः प्रतिदिनं शतचण्डीमहायज्ञः आयोजयिष्यते। यज्ञः प्रातः अष्टवादनात् एकादश-वादनपर्यन्तं तथा सायं सार्धचतुर्वादनात् सार्धषड्वादनपर्यन्तं भविष्यति। वैदिकमन्त्रैः आहुतिभिश्च भगवत्याः आराधना क्रियते। श्रद्धालवः यज्ञे भागं गृहीत्वा परिवारस्य सुखशान्तेः, आरोग्यस्य समृद्धेश्च कामनां करिष्यन्ति।

महानवम्यां विशालः भण्डारः

नवरात्रमहोत्सवस्य अन्तर्गतं अक्टोबरमासस्य १९ दिनाङ्के महानवम्याः अवसरे विशालभण्डारस्य आयोजनं भविष्यति। अस्मिन् श्रद्धालुभ्यः प्रसादः वितरिष्यते। मन्दिरे तस्य परिसरस्य बहिश्च आकर्षकः विद्युदलङ्कारः क्रियते, येन सम्पूर्णः क्षेत्रः मातुः भक्तिभावेन उत्सवोल्लासेन च देदीप्यमानः भविष्यति।

मन्दिरस्य सञ्चारमाध्यमप्रभारी राजेश-कसरवानी अवदत् यत् शारदीय-नवरात्रमहोत्सवः अक्टोबरमासस्य ११ दिनाङ्कात् २० दिनाङ्कपर्यन्तम् आयोजयिष्यते। श्रद्धालूनां सुविधायै मातुः दर्शनं च भव्यं कर्तुं मन्दिरपरिसरस्य विशेषसज्जा क्रियते। तेन भक्ताः नवरात्रकाले मातु: कल्याणीदेव्याः दर्शनं कृत्वा पुण्यलाभं प्राप्तुं प्रार्थिताः।

Hindusthan Samachar / Divya Ranjan