क्रीडाः छात्रेषु अनुशासनस्य, एकाग्रतायाः, आत्मविश्वासस्य च विकासं कुर्वन्ति : प्रो. बिहारीलालशर्मा।
उत्कृष्टं प्रदर्शनं कृतवतां क्रीडकानां चयनम् अखिलभारतीयान्तरविश्वविद्यालयीयधनुर्विद्याक्रीडाप्रतियोगितायै विश्वविद्यालयस्य दलाय कृतम् वाराणसी, १० अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालये आयोजितायाम्
ऑल इंडिया इंटर यूनिवर्सिटी तीरंदाजी प्रतियोगिता के लिए ट्रायल देते खिलाड़ी


उत्कृष्टं प्रदर्शनं कृतवतां क्रीडकानां चयनम् अखिलभारतीयान्तरविश्वविद्यालयीयधनुर्विद्याक्रीडाप्रतियोगितायै विश्वविद्यालयस्य दलाय कृतम्

वाराणसी, १० अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालये आयोजितायाम् अन्तरमहाविद्यालयीयधनुर्विद्याक्रीडाप्रतियोगितायाम् २०२६ तमे वर्षे उत्कृष्टं प्रदर्शनं कृतवतां क्रीडकानां चयनम् अखिलभारतीयान्तरविश्वविद्यालयीयधनुर्विद्याक्रीडाप्रतियोगितायै विश्वविद्यालयस्य दलाय कृतम् अस्ति। असमराज्यस्य तेजपुरनगरे आयोज्यमानायाम् अस्यां राष्ट्रियस्तरीयप्रतियोगितायां चयनिताः क्रीडकाः रिकर्व, इण्डियन, कम्पाउण्ड तथा महिलानां रिकर्व इत्येतासु स्पर्धासु विश्वविद्यालयस्य प्रतिनिधित्वं करिष्यन्ति।

चयनप्रक्रियायाः समये क्रीडकाः स्वकीयस्य क्रीडाकौशलस्य, एकाग्रतायाः, लक्ष्यवेधक्षमतायाश्च उत्कृष्टं प्रदर्शनम् अकुर्वन्। रिकर्वस्पर्धायां विशुः, विशालसिंहः, अक्षतसिंहः, जयकुमारः च चयनिताः। तथैव इण्डियनस्पर्धायाम् अङ्कितनिषादः, भार्गवः, निहालचौहानः, महेशपटेलः च स्थानं प्राप्तवन्तः। कम्पाउण्डस्पर्धायाम् अंशसिंहस्य तथा महिलानां रिकर्वस्पर्धायां वर्षाजटरानायाः चयनं कृतम्।

कुलपतिना क्रीडकानाम् उत्साहवर्धनम्

विश्वविद्यालयस्य कुलपतिः प्रो. बिहारीलालशर्मा चयनितेभ्यः क्रीडकेभ्यः अभिनन्दनानि शुभकामनाश्च प्रदाय अवदत् यत् क्रीडाः विद्यार्थिषु अनुशासनस्य, एकाग्रतायाः, आत्मविश्वासस्य, दृढसङ्कल्पस्य च गुणानां विकासं कुर्वन्ति। क्रीडाः न केवलं शारीरिकक्षमतां सुदृढां कुर्वन्ति, अपितु विद्यार्थिनां व्यक्तित्वनिर्माणे अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति।

सः अवदत् यत् विश्वविद्यालयः विद्यार्थिभ्यः शैक्षणिकोत्कृष्टतया सह क्रीडाक्षेत्रे अपि अग्रे गन्तुं श्रेष्ठावसरान् प्रदातुं प्रतिबद्धः अस्ति। कुलपतिः विश्वासम् अव्यक्तवान् यत् चयनिताः क्रीडकाः राष्ट्रियस्तरीयप्रतियोगितायाम् उत्कृष्टं प्रदर्शनं कृत्वा विश्वविद्यालयस्य गौरवं वर्धयिष्यन्ति।

नियमिताभ्यासः समर्पणं च सफलतायाः आधारः

विश्वविद्यालयस्य क्रीडाप्रभारी डॉ. कुप्पा बिल्वेशः चयनितेभ्यः क्रीडकेभ्यः अभिनन्दनानि प्रदाय अवदत् यत् नियमिताभ्यासः, समर्पणं, क्रीडाभावना च सफलतायाः प्रमुखाः आधाराः सन्ति। सः आशां व्यक्तवान् यत् विश्वविद्यालयस्य दलम् आगामीप्रतियोगितायां श्रेष्ठं प्रदर्शनं कृत्वा उल्लेखनीयाम् उपलब्धिं प्राप्स्यति। अस्मिन् अवसरे विश्वविद्यालयस्य धनुर्विद्याक्रीडाप्रशिक्षकः आदित्यकुमारः अपि उपस्थितः आसीत्।

Hindusthan Samachar / Dheeraj Maithani