हरिद्वारस्य अर्द्धकुम्भे सक्षम-सङ्घटनेन ४० दिवसीयः नेत्रकुम्भः आयोजयिष्यते
हरिद्वारम्, १० अक्टोबरमासः (हि.स.)। समदृष्टि-क्षमताविकास-अनुसन्धान-मण्डलस्य जनपदैककस्य सभायां २०२७ तमे वर्षे हरिद्वारे आयोज्यमानस्य अर्द्धकुम्भस्य अवसरे ४० दिवसीयस्य नेत्रकुम्भस्य आयोजनविषये सूचना प्रदत्ता। शनिवासरे राष्ट्रियस्वयं-सेवकसङ्घस्य जनपदक
सक्षम की बैठक में मौजूद कार्यकर्ता


हरिद्वारम्, १० अक्टोबरमासः (हि.स.)। समदृष्टि-क्षमताविकास-अनुसन्धान-मण्डलस्य जनपदैककस्य सभायां २०२७ तमे वर्षे हरिद्वारे आयोज्यमानस्य अर्द्धकुम्भस्य अवसरे ४० दिवसीयस्य नेत्रकुम्भस्य आयोजनविषये सूचना प्रदत्ता। शनिवासरे राष्ट्रियस्वयं-सेवकसङ्घस्य जनपदकार्यालये आयोजि-तायां सभायां कार्यकर्तृभ्यः आयोजनस्य सज्जतायां प्रान्तीयप्रशिक्षणवर्गे च सक्रियभागग्रहणाय आह्वानं कृतम्।

सभायां मुख्यातिथिः सक्षम-सङ्घटनस्य प्रान्ताध्यक्षः ललितपन्तः अवदत् यत् दिव्याङ्गजनेषु आत्मविश्वासस्य स्वाव-लम्बनभावनायाश्च विकासः सङ्घटनस्य उद्देश्यम् अस्ति। तेन उक्तं यत् अर्द्धकुम्भस्य अवसरे आयोज्यमानः नेत्रकुम्भः सेवाकार्याणां प्रमुखः कार्यक्रमः भविष्यति। अस्मिन् नेत्रचिकित्सासम्बद्धाः सेवाः प्रदातुं योजना अस्ति।

तेन सूचितं यत् अक्टोबरमासस्य ११ दिनाङ्के देहरादूनस्य झाझरास्थिते धीमहि-प्रकल्पे एकदिवसीयः प्रान्तीय-प्रशिक्षणवर्गः आयोजयिष्यते। अस्मिन् वर्गे राष्ट्रिय-उपाध्यक्षः कमलकान्तपाण्डे, उत्तरक्षेत्रस्य सङ्घटनमन्त्री देवेन्द्रः, प्रान्तसह-सम्पर्कप्रमुखः डॉ. अभयः च कार्यकर्तॄणां मार्गदर्शनं करिष्यन्ति।

जनपदाध्यक्षः सन्दीपअरोरा अवदत् यत् प्रशिक्षणवर्गे जनपदस्य अधिकाधिकानां कार्यकर्तॄणां सहभागितां सुनिश्चितां करिष्यते। तेन नेत्रकुम्भस्य आयोजनेऽपि सक्रियसहयोगं कर्तुं कार्यकर्तारः आहूताः।

सभायाः सञ्चालनं जनपदाध्यक्षः सन्दीपअरोरा तथा जनपदोपाध्यक्षः सत्यदेवराठी च कृतवन्तौ। सभायां प्रान्तीययुवाप्रमुखः कमलपन्तः, जनपद-कोषाध्यक्षः सत्यप्रकाशः, महिलाप्रमुखा सीमाचौहानः, विमलेशगौरः, गौरवः, राजशर्मा इत्यादयः कार्यकर्तारः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan