मुक्तेः अनन्तरं दीपके महाराष्ट्रं प्रति प्रस्थितः, सौरभ-राङ्का च पत्रकारसम्मेलनं करिष्यतः
नवदिल्ली, ११ अक्टोबरमासः (हि.स.)। दिल्ली-आरक्षिबलस्य निवारकनिग्रहात् मुक्तः सन् कॉकरोचजनतापार्टी इत्यस्य नेता अभिजीतदीपके रविवासरे वरिष्ठा-धिवक्तारं कपिलसिब्बलम् अमिलत्। तेन सह मेलनोपरि दीपके अवदत् यत् तस्य पितामही दिवङ्गता अस्ति। अतः सः स्वगृहं मह
CJP President Abhijeet Deepak in police custody as soon as he reaches Delhi


नवदिल्ली, ११ अक्टोबरमासः (हि.स.)। दिल्ली-आरक्षिबलस्य निवारकनिग्रहात् मुक्तः सन् कॉकरोचजनतापार्टी इत्यस्य नेता अभिजीतदीपके रविवासरे वरिष्ठा-धिवक्तारं कपिलसिब्बलम् अमिलत्। तेन सह मेलनोपरि दीपके अवदत् यत् तस्य पितामही दिवङ्गता अस्ति। अतः सः स्वगृहं महाराष्ट्रं प्रति प्रत्यागच्छति। मुक्तौ नेतारौ आशुतोषराङ्का-सौरभदासौ च अपराह्णे सम्पूर्णघटनाक्रमविषये पत्रकारसम्मेलनं करिष्यतः। मुक्त्यनन्तरं सौरभदासोऽपि अवदत् यत् सः पत्रकारसम्मेलनं कृत्वा अग्रिमकार्ययोजनायाः विषये सूचनां दास्यति।

घटनाक्रमविषये दीपके अवदत्, “सम्पूर्णेन विश्वेन दृष्टं यत् किम् अभवत्। ज्ञानेशकुमारस्य सुरक्षायै सम्पूर्णा दिल्ली स्तब्धा अभवत्। ज्ञानेशकुमारे एतादृशं किं विशेषमस्ति, यत् भवन्तः ह्यः लक्षशः जनान् असुविधायां पातयित्वा तस्य रक्षणम् अकुर्वन्?”

कॉकरोचजनतापार्टी इत्यस्य नेतारः अभिजीतदीपके, आशुतोषराङ्का, सौरभ-दासः च शनिवासरे दिल्ली-विमानपत्तने विमानस्य अन्तः एव निवारकनिग्रहे गृहीताः आसन्। रविवासरे ते विशेषकार्य-पालिकादण्डाधिकारिणः न्यायालये उप-स्थापिताः, यत्र पञ्चाशत्सहस्ररूप्यकाणां बन्धपत्रेण ते मुक्ताः।

दिल्ली-आरक्षिबलस्य अनुसारम्, अभिजीतदीपके, आशुतोषराङ्का, सौरभ-दासः च भारतीयनागरिक-सुरक्षासंहितायाः १२६/१७० इति धाराणाम् अन्तर्गतं निवारकनिग्रहाय अक्टोबर-मासस्य १० दिनाङ्के शनिवासरे निगृहीताः आसन्। सर्वाः विधिकप्रक्रियाः अनुपाल्य ते अक्टोबरमासस्य ११ दिनाङ्के रविवासरे दिल्ली-कैण्ट्-स्थिते विशेष-कार्यपालिकादण्डाधिकारिणः न्यायालये उपस्थापिताः।

आरक्षिबलस्य कथनानुसारम्, “शान्तेः सद्व्यवहारस्य च पालनार्थम् एकवर्षस्य अवधये पञ्चाशत्सहस्ररूप्यकाणां प्रति-भूबन्धपत्रं पूरितम्। ततः विशेषकार्य-पालिकादण्डाधिकारिणः न्यायालयात् ते मुक्ताः।”

Hindusthan Samachar / Divya Ranjan