Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ अक्टोबरमासः (हि.स.)। मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारस्य त्यागपत्रस्य याचनां कृत्वा अक्टोबर-मासस्य १० दिनाङ्के प्रदर्शनार्थं दिल्लीम् आगच्छन्तः कॉकरोचजनतापार्टी इत्यस्य त्रयः नेतारः अभिजीतदीपके, सौरभदासः, आशुतोषराङ्का च, सङ्घटनस्य विधिविभागप्रमुखा रत्नासिंहः च मुक्ताः कृताः। दक्षिणपश्चिमदिल्लीक्षेत्रस्य विशेष-कार्यपालिकादण्डाधिकारिणा तेषां मुक्त्यर्थम् आदेशः प्रदत्तः।
विशेषकार्यपालिकादण्डाधिकारिणा एकवर्षपर्यन्तं शान्तिभङ्गं न करिष्यन्ति इति शर्ते तेषां मुक्त्यादेशः प्रदत्तः। सीजेपी-सङ्घटनस्य त्रयः नेतारः दीपके, सौरभदासः, आशुतोषराङ्का च अक्टोबर-मासस्य १० दिनाङ्के विमानयाने एव निगृहीताः। दिल्ली इत्यस्य आरक्षिबलेन तेषां विरुद्धं भारतीयन्याय-संहितायाः १२६ तथा १७० इति धाराणाम् अन्तर्गतं कार्यवाही कृता। रत्नासिंहामपि अक्टोबरमासस्य १० दिनाङ्के प्रदर्शनार्थं प्रस्थानसमये तस्याः गृहनिकटात् निगृहीतवती आरक्षिणी।
ज्ञातव्यं यत् मतचौर्यप्रकरणे मुख्य-निर्वाचनायुक्तस्य ज्ञानेशकुमारस्य त्यागपत्रस्य याचनां कृत्वा कॉकरोच-जनतापार्टी इत्यनेन सह अनेकैः छात्र-युवसङ्घटनैः राजनैतिकदलैश्च अक्टोबर-मासस्य १० दिनाङ्के जन्तरमन्तरे प्रदर्शनस्य घोषणा कृता आसीत्। अस्मिन् प्रदर्शने भागं ग्रहीतुं सीजेपी-सङ्घटनस्य नेतारः दिल्लीम् आगतवन्तः आसन्। किन्तु शान्तिभङ्गस्य आशङ्कां दृष्ट्वा आरक्षिबलेन तेषां निवारकनिग्रहः कृतः आसीत्।
Hindusthan Samachar / Divya Ranjan