Enter your Email Address to subscribe to our newsletters



जौनपुरम्,11 अक्टूबरमासः (हि.स.)। नवरात्रस्य प्रथमदिने रविवासरे उत्तरप्रदेशस्य जौनपुरजनपदे प्रसिद्धे शक्तिपीठे मातुः शीतलाचौकियांधाम्नि तथा मैहरदेवीमन्दिरे दर्शनपूजनार्थं श्रद्धालूनां विशालः जनसमूहः समागतः। मातुः दर्शनार्थं भक्तानां दीर्घाः पङ्क्तयः दृश्यन्ते। पूर्वाञ्चलस्य विभिन्नजनपदेभ्यः सह देहलीमुम्बयीनगराभ्यां च श्रद्धालवः अत्र आगच्छन्ति।
मातुः शीतलाचौकियांधाम्नि श्रद्धालूनां गाढा श्रद्धा अस्ति। जनश्रुतिः अस्ति यत् मातुः विन्ध्यवासिन्याः दर्शनार्थं गमनात् पूर्वं मातुः शीतलायाः दर्शनं करणं शुभप्रदं भवति। एतस्याः श्रद्धायाः कारणात् वाराणसी, गाजीपुर, आजमगढ, बलिया, सोनभद्र, गोरखपुर इत्यादिभ्यः पूर्वाञ्चलस्य अनेकजनपदेभ्यः विन्ध्याचलं गच्छन्तः श्रद्धालवः प्रथमं चौकियांधाम प्राप्य पूजामर्चनां च कुर्वन्ति।
नवरात्रस्य प्रथमदिने प्रातःकालादेव मन्दिरपरिसरे भक्तानां समूहः समागन्तुम् आरब्धः। श्रद्धालवः मातुः दर्शनस्य एकां झलकं प्राप्तुं घण्टान् यावत् पङ्क्तिषु स्थित्वा प्रतीक्षां कुर्वन्तः दृश्यन्ते स्म। भक्ताः विधिविधानपूर्वकं पूजनार्चनं कृत्वा परिवारस्य सुखसमृद्ध्यै मनोकामनानां पूर्तये च प्रार्थनाम् अकुर्वन्।
अस्मिन् विषये सम्भाषमाणः मन्दिरस्य महन्तः विवेकानन्द पाण्डा अवदत् यत् मातुः शीतलायाः प्रति श्रद्धालूनाम् आस्थायाः अनुमानम् एतेन एव कर्तुं शक्यते यत् अनेके परिवाराः बालकानां मुण्डनसंस्कारसहितानां विभिन्नानां धार्मिकानुष्ठानानां सम्पादनार्थम् अपि अत्र आगच्छन्ति। भक्तानां विश्वासः अस्ति यत् मातुः सन्निधौ श्रद्धापूर्णेन मनसा कृता प्रार्थना आत्मिकशान्तिं आशीर्वादं च प्रददाति। नवरात्रकाले मन्दिरपरिसरे धार्मिकं वातावरणं वर्तते। श्रद्धालूनाम् आवागमनेन धाम्नि सम्पूर्णे दिने उत्साहो भवति।
--------------------
Hindusthan Samachar / Dheeraj Maithani