Enter your Email Address to subscribe to our newsletters

भोपालम्, १० अक्टोबरमासः (हि.स.)। मध्यप्रदेशभाजपायाः प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः शनिवासरे झाबुआ, आलीराजपुर तथा धारग्रामीणजनपदेषु आयोजितासु सङ्गठनात्मकसभासु सम्बोधनं कृतवान्। सः अवदत् यत् प्रधानमन्त्रीनरेन्द्रमोदिनः नेतृत्वे भाजपा निर्धनानां, कृषकाणां, यूनां, महिलानां, जनजातीयसमाजस्य च सशक्तीकरणाय प्रतिबद्धतया कार्यं करोति। सः कार्यकर्तॄन् आहूतवान् यत् ते सर्वकारस्य जनकल्याणकारीयोजनानां लाभं अन्तिमव्यक्तिपर्यन्तं प्रापयेयुः तथा सेवया, समर्पणेन, अनुशासनेन च सङ्गठनं सुदृढं कुर्युः।
हेमन्तखण्डेलवालः अवदत् यत् भाजपायाः शक्तिः तस्याः विचारधारायाम्, सङ्गठ-नात्मकानुशासने, समर्पितेषु कार्यकर्तृषु च निहिता अस्ति। भारतीयजनसङ्घस्य कालादेव दलं राष्ट्रहितसम्बद्धान् ये विषयान् स्वसङ्कल्पेषु समावेशितवत्, तेषां पूर्तये निरन्तरं कार्यं कुर्वत् अस्ति। अनुच्छेदस्य ३७०-इत्यस्य निरसनम्, त्रितलाकस्य विरुद्धं विधिनिर्माणम्, अयोध्यायां श्रीराम-मन्दिरस्य निर्माणं च अस्याः वैचारिकयात्रायाः प्रमुखानि सोपानानि सन्ति।
काङ्ग्रेसदलस्य आलोचना
भाजपायाः प्रदेशाध्यक्षः काङ्ग्रेसदलस्य आलोचनां कुर्वन् अवदत् यत् देशस्य स्वातन्त्र्यप्राप्तेः अनन्तरं महात्मागान्धिना काङ्ग्रेसदलस्य विसर्जनस्य विचार: दत्तः आसीत्, किन्तु कालान्तरे दलम् एकस्याः एव परिवारस्य परितः सीमितम् अभवत्। तस्य मतानुसारं भाजपायाः परिचयः न कस्यचित् परिवारस्य आधारेण, अपितु विचारधारया, सङ्गठनेन, राष्ट्रसेवा-सङ्कल्पेन च भवति।
सः अवदत् यत् केन्द्रसर्वकारः प्रधानमन्त्रिणः आवासयोजनया, उज्ज्वला-योजनया, जलजीवन-अभियानेन, आयु-ष्मान्भारतयोजनया च निर्धन-परिवाराणां, महिलानां, ग्रामीण-क्षेत्राणां च कृते सुविधाः प्रापयितुं प्रयतते। भाजपाकार्यकर्तॄणां दायित्वम् अस्ति यत् पात्रेभ्यः लाभार्थिभ्यः योजनानां लाभः प्राप्येत तथा जनजातीयक्षेत्रेषु शिक्षायाः, स्वास्थ्यस्य, आवासस्य, पेयजलस्य, रोजगारस्य च अवसराः वर्धेरन्।
जनजातीयसंस्कृतेः अस्मितायाश्च सम्मानम् आवश्यकम्
हेमन्तखण्डेलवालः आलीराजपुरं वीराणां क्रान्तिकारिणां च भूमिः इति वर्णयन् अवदत् यत् एतत् क्षेत्रं शहीदचन्द्र-शेखर-आजादस्य क्रान्तिकारिणः टण्ट्यामामा-भीलस्य च वीरपरम्परया सम्बद्धम् अस्ति। सः अवदत् यत् जनजातीयसमाजस्य परम्पराः, प्रकृतौ श्रद्धा, सांस्कृतिक-मूल्यानि च भारतीयवैभवस्य महत्त्वपूर्णः भागः सन्ति। पूर्वजानां क्रान्तिकारिणां च योगदानस्य स्मरणं आवश्यकम्।
सः अवदत् यत् प्रधानमन्त्रीनरेन्द्रमोदी २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं सङ्कल्पेन कार्यं करोति। अस्य लक्ष्यस्य प्राप्तौ सङ्गठनस्य कार्यकर्तॄणां भूमिका महत्त्वपूर्णा अस्ति। ते सर्वकारस्य योजनानां विषये जनान् सूचयितुं सह जनैः सह निरन्तरं संवादमपि स्थापयेयुः।
रङ्गवल्ल्यां बालानां सृजनशीलतायाः प्रशंसा
आलीराजपुरे सेवासङ्कल्पाभियानस्य अन्तर्गतं आयोजिते रङ्गवल्लिकार्यक्रमे हेमन्तखण्डेलवालः बालानां सृजन-शीलतायाः प्रशंसाम् अकरोत्। सः अवदत् यत् बालान् कल्पनाशीलान्, विचार-शीलान्, सृजनशीलान् च कर्तुं प्रोत्साहनं दानम् उज्ज्वलभविष्यस्य आधारशिला अस्ति। बालानां स्वप्नानां प्रतिभायाश्च प्रोत्साहनेन तेषु समाजं राष्ट्रं च प्रति उत्तरदायित्वभावः विकसितुं शक्यते।
प्रतिमासु माल्यार्पणम्, निर्माणाधीन-कार्यालयस्य निरीक्षणम्
प्रदेशाध्यक्षः खण्डेलवालः झाबुआनगरे निर्माणाधीनस्य भाजपाकार्यालयस्य निरीक्षणं कृत्वा आवश्यकान् निर्देशान् दत्तवान्। ततः मेघनगरतिराहे पूर्वसांसदस्य स्वर्गीयस्य दिलीपसिंहभूरियस्य प्रतिमायां माल्यार्पणम् अकरोत्। आलीराज-पुरजनपदस्य जोबटविधानसभाक्षेत्रे शास-कीयमहाविद्यालयस्य चतुष्पथे क्रान्ति-कारिणः टण्ट्यामामाभीलस्य प्रतिमाया-मपि श्रद्धासुमनांसि अर्पितवान्।
सभासु कार्यक्रमेषु च मन्त्रिमण्डलस्य सदस्यः कैलाशविजयवर्गीयः, सम्पतिया-उइके, नागरसिंहचौहानः च इत्येतै: सह दलस्य प्रदेशपदाधिकारिणः, जनपदाध्यक्षाः, विधायकाः, अन्ये जनप्रतिनिधयश्च उपस्थिताः आसन्। तेषु प्रदेशोपाध्यक्षः रणवीरसिंहरावतः, प्रदेशमहामन्त्री सुमेर-सिंहसोलङ्की, पूर्वसांसदः गुमान-सिंहडामोरः, सम्बन्धितजनपदानां दलपदा-धिकारिणश्च समाविष्टाः आसन्।
Hindusthan Samachar / Divya Ranjan