Enter your Email Address to subscribe to our newsletters

दतिया, १० अक्टोबरमासः (हि.स.)। सर्वपितृमोक्षामावस्यायाः अवसरे श्रीपण्डो-खरसरकारधाम्नि पितॄणां शान्तेः मोक्षप्राप्तेश्च कामनया विशेषधार्मिका-नुष्ठानम् आयोजितम्। धाम्नि स्थापिताायां पितृशिलायां शनिवासरे शतशः श्रद्धालवः विधिविधानपूर्वकं पितृपूजनं, तर्पणं, पिण्डदानं च कृतवन्तः। अस्मिन् अवसरे अनेके श्रद्धालवः स्वपितॄणां कृते पितृशिलाक्षेत्रे स्थानमपि प्रदत्तवन्तः।
पण्डोखरधाम्नः पीठाधीश्वरस्य श्री-गुरुशरणमहाराजस्य सान्निध्ये सम्पन्नम् अनुष्ठानं धाम्नः मुख्याचार्यस्य पण्डित-उमाशङ्करशास्त्रिणः निर्देशनानुसारं सहयोगिभिः आचार्यैः सम्पादितम्। धार्मिकपरम्परानुसारम् अनुष्ठाने सम्मिलिताः श्रद्धालवः सर्वप्रथमं केशत्यागं कृत्वा मुण्डनं कारितवन्तः। ततः पवित्रायां पुष्पवतीनद्यां स्नानं कृत्वा श्वेतवस्त्राणि धृतवन्तः, पितृपूजनं च कृतवन्तः। श्रद्धालवः तर्पणेन पिण्डदानेन च स्वपितॄणां शान्तेः मुक्तेश्च कामनाम् अकुर्वन्।
अनुष्ठानस्य अग्रिमे चरणे श्रद्धालवः पुष्पवतीनद्यां पिण्डानां विसर्जनं कृत्वा पुनः स्नानम् अकुर्वन्। ततः धाम्नि २५१ वेदिकासु सामूहिकः यज्ञ: आयोजितः। सायंकाले पितृशिलाक्षेत्रे ब्राह्मणेभ्यः कन्याभ्यश्च भोजनम् अकारयत्। श्रद्धालवः स्वसामर्थ्यानुसारम् उत्तरीयाणि, पात्राणि, नगदधनराशिं च सहितानि विविधानि वस्तूनि दत्त्वा आशीर्वादं प्राप्तवन्तः। अस्मिन्नवसरे आयोजिते भण्डारे सहस्रशः श्रद्धालवः प्रसादं गृहीतवन्तः।
श्रीगुरुशरणजीमहाराजस्य शिष्यः तथा श्रीपण्डोखरसरकारधाम्नः संस्थापकः सचिवश्च मुकेशकुमारगुप्तः अवदत् यत् धाम्नः पितृशिलायां प्रतिमासस्य श्राद्धामावस्यायामपि श्रद्धालवः स्वपितॄणां शान्त्यर्थं धार्मिकानुष्ठानानि कुर्वन्ति। प्रतिवर्षं पितृपक्षस्य सर्वपितृमोक्ष-अमावस्यायां बहुसङ्ख्याकाः श्रद्धालवः अत्र आगत्य पितृपूजनं कुर्वन्ति तथा स्वपितॄणां कृते पितृशिलाक्षेत्रे स्थानं प्रददति।
सः अवदत् यत् पितृशिलायां पूजनस्य पितॄणां कृते स्थानप्रदानस्य च परम्परा पूर्वजेभ्यः श्रद्धायाः कृतज्ञतायाश्च तथा सनातनधार्मिकमान्यतासु आस्थायाः प्रतीकम् अस्ति।
Hindusthan Samachar / Divya Ranjan