अहं सर्वदा ‘राज्यस्य विकासेन राष्ट्रस्य विकासः’ इति मन्त्रं स्वीकृत्य अग्रे गतवान्—प्रधानमन्त्री
नवदिल्ली, ११ अक्टोबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे अवदत् यत् विगतेषु २५ वर्षेषु शासनप्रमुखरूपेण कार्यं कुर्वन् लोकतन्त्रस्य द्वयोः शक्त्योः विषये तस्य विश्वासः निरन्तरं दृढतरः अभवत्। एते शक्ती स्तः—देशस्य जनाः, सहकारी सङ्घवादश्च।
कार्यक्रम को संबोधित करते प्रधानमंत्री


नवदिल्ली, ११ अक्टोबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे अवदत् यत् विगतेषु २५ वर्षेषु शासनप्रमुखरूपेण कार्यं कुर्वन् लोकतन्त्रस्य द्वयोः शक्त्योः विषये तस्य विश्वासः निरन्तरं दृढतरः अभवत्। एते शक्ती स्तः—देशस्य जनाः, सहकारी सङ्घवादश्च। सः अवदत्, “अहं सर्वदा राज्यस्य विकासेन राष्ट्रस्य विकासः इति मन्त्रं स्वीकृत्य अग्रे गतवान्।”

प्रधानमन्त्री मोदी अद्य तमिलनाडुराज्यस्य यात्रायै चेन्नईनगरं प्राप्तवान्। सः प्रथमं चेन्नई-मेट्रोरेलयाने पोरूर-बाईपास-स्थानकात् पूनामल्ली-बाईपासस्थानक-पर्यन्तं यात्रां कृत्वा पुनः प्रत्यागतवान्। ततः जलकण्ठेश्वरमन्दिरे दर्शनं पूजनं च कृतवान्। अनन्तरं सः आईआईटी-मद्रास-परिसरे स्थितं मस्तिष्ककेन्द्रम् अगच्छत्। प्रधानमन्त्री १३ सहस्रकोटिरूप्यकाणाम् अधिकव्ययेन निर्मीयमाणानां विविध-विकास-परियोजनानाम् आधारशिलाः स्थापितवान्, कतिपयपरियोजनानाम् उद्घाटनं कृतवान्, अन्याश्च राष्ट्राय समर्पितवान्। ततः सः जनसभां सम्बोधितवान्।

प्रधानमन्त्री नरेन्द्रमोदी स्वसम्बोधने अवदत् यत् भारतं स्वस्य सांस्कृतिक-वैभवात् प्रेरणाम् आदाय विज्ञानस्य प्रगत्या आधुनिकमूल-भूतसंरचनया च सह अग्रे वर्धते। अद्य तेन तमिलनाडुराज्ये १३ सहस्रकोटिरूप्यकाणां विकासपरियोजनानाम् उद्घाटनं शिला-न्यासश्च कृतः। एताभिः परियोजनाभिः परिवहनक्षेत्रं, उद्योगाः, व्यापारश्च सुदृढाः भविष्यन्ति तथा युवभ्यः रोजगारस्य नवीनावसराः उत्पत्स्यन्ते।

प्रधानमन्त्री अवदत् यत् उत्तमपरिवहन-व्यवस्थायै केवलं मार्गाणां विस्तारीकरणं पर्याप्तं नास्ति, अपितु आधुनिकनगरेषु समग्रायाः मूलभूत-संरचनायाः आवश्यकता अस्ति। एतदेव उद्दिश्य विगतेषु दशवर्षेषु देशस्य सर्वेषु भागेषु मेट्रोरेलजालस्य विस्तारः कृतः। २०१४ तमे वर्षे देशस्य केवलं पञ्चसु नगरेषु मेट्रोसेवा उपलब्धा आसीत्, परन्तु अधुना २५ नगरेषु मेट्रोरेलयानानि प्रचलन्ति।

मोदी अवदत् यत् तमिलनाडुराज्यस्य कृते अद्य ऐतिहासिकः दिवसः अस्ति। प्रायः १३ सहस्रकोटिरूप्यकाणां परियोजनानां अन्तर्गतं अनेकानां पूर्णानां परि-योजनानाम् उद्घाटनं कृतम् अस्ति तथा नवीनपरियोजनानाम् आधारशिलाः स्थापिताः सन्ति। एताभिः परियोजनाभिः दैनिकयातायातः सुगमः भविष्यति, उद्योगव्यापारयोः प्रोत्साहनं मिलिष्यति तथा राज्यस्य युवभ्यः रोजगारस्य अवसराः सृज्यन्ते।

सः अवदत् यत् मन्दिरेभ्यः आरभ्य मेट्रोरेलयानपर्यन्तं तमिलनाडुराज्यस्य अनुभूतयः भारतस्य मूलभावनां प्रति-बिम्बयन्ति। भारतं स्वस्य सांस्कृतिक-वैभवात् प्रेरणां प्राप्य विज्ञानस्य प्रगत्या सह अग्रे वर्धते। आधुनिकमूल-भूतसंरचना नवीनावसरान् जनयति। राष्ट्रस्य सांस्कृतिकपरम्परा भविष्यस्य आकाङ्क्षाश्च सहैव अग्रे वर्धन्ते।

प्रधानमन्त्री अवदत् यत् देशे पत्तनानां मूलभूतसंरचना अपि सुदृढा क्रियते, येन समुद्रीपरिवहनक्षेत्रं नवीनानि उच्च-शिखराणि प्राप्नुयात्। केन्द्रसर्वकारः प्रायः १७ सहस्रकोटिरूप्यकाणां निवेशेन तूतीकोरिनस्थितं वी.ओ. चिदम्बरनार-पत्तनं विश्वस्तरीयस्य विशालकण्टेनर-केन्द्रस्य हरितऊर्जाकेन्द्रस्य च रूपेण विकसितुं प्रयतते। अस्य कार्यस्य पूर्णतायां तत् पत्तनं विश्वस्य अत्यन्तविशालानि कण्टेनरयान-पोतानि सञ्चालयितुं समर्थं भविष्यति। अनेन तमिलनाडुराज्यस्य औद्योगिकस्य परिवहनस्य च वैश्विककेन्द्ररूपेण विकासे साहाय्यं भविष्यति।

सः अवदत् यत् कतिपयदिनानि पूर्वमेव देशवासिनाम् आशीर्वादेन प्रेम्णा च सः सर्वकारप्रमुखरूपेण २५ वर्षाणि पूर्णवान्। २००१ तमस्य वर्षस्य अक्टोबरमासे मुख्यमन्त्रिरूपेण शपथग्रहणानन्तरं तस्मै मुख्यमन्त्रिरूपेण प्रधानमन्त्रिरूपेण च देशसेवायाः अवसरः प्राप्तः। सः अवदत् यत् एतेषु २५ वर्षेषु लोकतन्त्रस्य द्वयोः शक्त्योः—देशस्य जनानां सहकारीसङ्घवादस्य च—विषये तस्य विश्वासः निरन्तरं दृढतरः अभवत्। सः सर्वदा ‘राज्यस्य विकासेन राष्ट्रस्य विकासः’ इति मन्त्रं स्वीकृत्य अग्रे गतवान्।

प्रधानमन्त्री अवदत् यत् भारतम् अधुना विश्वस्य द्वितीयः बृहत्तमः चलदूरवाणी-निर्माता देशः अस्ति। २०१४ तमस्य वर्षस्य अनन्तरं देशस्य वैद्युतोपकरणनिर्यातः एकादशगुणितः वर्धितः, यदा तु रक्षाक्षेत्रस्य निर्यातः पञ्चाशद्गुणितः वर्धितः। अभियां-त्रिकी-योत्पादानां निर्यातेन अपि नवीनं कीर्तिमानं स्थापितम्। विनिर्माणक्षेत्रस्य अस्याः वृद्धेः फलस्वरूपं देशे युवभ्यः प्रत्यक्षरूपेण परोक्षरूपेण च लक्षशः रोजगारावसराः उत्पन्नाः। सः अवदत् यत् देशस्य विनिर्माणक्षेत्रस्य वृद्धौ तमिलनाडुराज्यस्य जनानां महत्त्वपूर्णं योगदानम् अस्ति।

Hindusthan Samachar / Divya Ranjan