Enter your Email Address to subscribe to our newsletters


सारणम्, 11 अक्टूबरमासः (हि.स.)।
अखिलभारतीयविद्यार्थिपरिषदः छपराइकायया रविवासरे लोकनायकजयप्रकाशनारायणस्य जयन्त्यवसरे जयप्रकाशविश्वविद्यालयस्य परिसरे स्वच्छताभियानं सञ्चालितम्।
अस्मिन् अवसरे कार्यकर्तारः श्रमदानं कुर्वन्तः विश्वविद्यालयपरिसरस्य, जेपीप्रतिमास्थलस्य, प्रतीक्षाक्षेत्रस्य, पेयजलस्रोतसः च परितः स्वच्छताकार्यम् अकुर्वन्।
स्वच्छताकार्यस्य अनन्तरं कार्यकर्तारः लोकनायकस्य प्रतिमायां विधिवत् माल्यार्पणं कृत्वा तस्य आदर्शान् जीवने आत्मसात्कर्तुं सङ्कल्पम् अकुर्वन्।
अस्मिन् अवसरे निवर्तमाननगरमन्त्री आशीषप्रजापतिः, नगरसहमन्त्री ऋतिकसिंहः, शिवममिश्रः, आयुष्यकश्यपः, राजनकुमारसिंहः, रॉबिनकुमारः, करणकुमारः इत्यादयः अनेकाः कार्यकर्तारः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani