Enter your Email Address to subscribe to our newsletters


सारणम्, 11 अक्टूबरमासः (हि.स.)।
जनपदे शारदीयनवरात्रस्य पावनपर्वणः प्रथमदिने अद्य प्रातःकालादेव भक्तेः अद्भुता पवित्रा च प्रवाहधारा प्रवहति। जनपदस्य प्रसिद्धेषु मांझी, रिवेलगंज, तिवारीघाट, डोरीगंज, बंगालीघाट, आमी, दिघवारा तथा सोनपुर इत्येतेषां विभिन्नानां नदीघाटानां तटे प्रातःकालादेव श्रद्धालूनां समूहः समागतः अस्ति।
श्रद्धालवः पवित्रासु नदीषु श्रद्धया स्नानम् अकुर्वन्। स्नानपूजनार्चनयोः अनन्तरं श्रद्धालवः पवित्रं जलं कलशेषु पूरयित्वा स्वगृहाणि पूजास्थलानि च प्रति प्रस्थितवन्तः, यत्र धार्मिकानुष्ठानस्य प्रक्रिया प्रारब्धा अस्ति। विद्वद्भिः पण्डितैः वैदिकमन्त्रोच्चारणेन सह अत्यन्तशुभे मुहूर्ते कलशस्थापनस्य प्रक्रिया सम्पाद्यते।
मातुर्दुर्गायाः प्रथमस्वरूपस्य आगमनेन अस्य भव्यस्य धार्मिकानुष्ठानस्य च प्रभावेण सम्पूर्णं नगरीयं ग्रामीणं च क्षेत्रं भक्तिमयेन वातावरणेन परिपूर्णम् अभवत्। श्रद्धालवः स्वस्वश्रद्धानुसारं नवदुर्गाणां पूजार्चनायां संलग्नाः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani