Enter your Email Address to subscribe to our newsletters


हमीरपुरम्, 11 अक्टूबरमासः (हि.स.)।
राष्ट्रियप्रौद्योगिकीसंस्थाने हमीरपुरे आयोजितः त्रिदिवसीयः राष्ट्रियशिक्षामहाकुम्भः ६.० रविवासरे सुरक्षितराष्ट्रस्य, सशक्तसमाजस्य, विकसितभारतस्य च सङ्कल्पेन सम्पन्नः अभवत्। ‘सुरक्षितभारतं विकसितभारतं च’ इति विषयम् अधिकृत्य आयोजिते अस्मिन् महाकुम्भे राष्ट्रियसुरक्षा, सामाजिकसामञ्जस्यं, माध्यमसाक्षरता, कृषिक्षेत्रे कृत्रिमबुद्धेः (ए.आई.) उपयोगः, सीमावर्तिक्षेत्राणां च आव्हानानि अधिकृत्य विस्तृतं विचारमन्थनं कृतम्। समापनसमारोहे शिक्षामहाकुम्भस्य ७.० संस्करणस्य आयोजनार्थं दायित्वसूचकः दण्डः भारतीयप्रौद्योगिकीसंस्थानाय जम्मू इत्यस्मै समर्पितः।
समापनसमारोहे पूर्वकेन्द्रीयमन्त्री सांसदश्च अनुरागसिंहठाकुरः मुख्यातिथिरूपेण उपस्थितः आसीत्। कार्यक्रमे राष्ट्रियस्वयंसेवकसङ्घस्य विचारकः समाजसेवी च डॉ. इन्द्रेशकुमारः, भारतीयप्रौद्योगिकीसंस्थानस्य मण्डी इत्यस्य निदेशकः प्रो. लक्ष्मीधरबेहरा, भारतीयप्रौद्योगिकीसंस्थानस्य रोपड इत्यस्य निदेशकः प्रो. राजीवआहूजा, इण्डियाहैबिटेटसेण्टरस्य निदेशकः प्रो. के.जी. सुरेशः, त्रिपुरासर्वकारस्य सचिवा सोनलगोयलः, भारतीयलोकप्रशासनसंस्थानस्य नवदेहल्याः कुलसचिवः अमिताभरञ्जनः इत्यादयः अनेकाः शिक्षाविदः विशेषज्ञाश्च भागम् अगृह्णन्।
अनुरागठाकुरः अवदत् यत् विकसितभारतस्य निर्माणस्य त्रयः प्रमुखाः आधाराः शिक्षायाः, सुरक्षायाः, समृद्धेश्च क्षेत्राणि सन्ति। भारतम् एतेषु क्षेत्रेषु स्वकीयाः क्षमताः निरन्तरं सुदृढाः करोति। तेन अनुसन्धानस्य, नवाचारस्य, योग्यताधारितावसराणां, भ्रष्टाचारस्य मादकद्रव्यसेवनस्य च नियन्त्रणस्य तथा मूलसंरचनायाः विकासस्य महत्त्वं प्रतिपादितम्। ‘सिन्दूराभियानम्’ उल्लिख्य सः अवदत् यत् भारतं स्वकीयाः रक्षाक्षमताः विकसितवान् अस्ति तथा च आतङ्कवादस्य विरुद्धं कठोरम् अभिमतं स्वीकृतवान् अस्ति।
विविधतां विवादस्य न, अपितु सौन्दर्यस्य आधारं मन्यन्ताम् : डॉ. इन्द्रेशकुमारः
डॉ. इन्द्रेशकुमारः राष्ट्रियैक्यस्य, सामाजिकसामञ्जस्यस्य, सांस्कृतिकचेतनायाश्च महत्त्वं प्रतिपादयन् अवदत् यत् विविधतां विवादस्य आधारं न, अपितु सौन्दर्यस्य आधारं मन्तव्यम्। ‘राष्ट्रं प्रथमम्, राष्ट्रं अन्तिमम्, राष्ट्रं सर्वदा’ इति सन्देशं प्रददन् सः अवदत् यत् शिक्षायाः उद्देश्यम् केवलं ज्ञानप्रदानं नास्ति, अपितु सद्मानवान्, उत्तरदायिनः नागरिकान्, राष्ट्रं प्रति कर्तव्यनिष्ठान् व्यक्तीन् च निर्मातुम् अपि अस्ति।
माध्यमसाक्षरतायाः प्रौद्योगिकनवाचारस्य च महत्त्वे बलम्
प्रो. के.जी. सुरेशः अवदत् यत् परिवर्तमानकथ्यप्रस्तुतिकाले सूचनानां सत्यतायाः परीक्षणं भ्रामकसूचनाभ्यः च रक्षणम् आवश्यकम् अस्ति। उत्तरदायिमाध्यमानि तथ्याधारितः संवादश्च सशक्तसमाजस्य निर्माणे महत्त्वपूर्णौ स्तः। अपरतः प्रो. लक्ष्मीधरबेहरा हिमालयीयक्षेत्रेषु आपदाप्रबन्धनाय पारम्परिकज्ञानस्य आधुनिकविज्ञानस्य च समन्वयस्य आवश्यकतायाः विषये बलं दत्तवान्।
प्रो. राजीवआहूजः अवदत् यत् कृत्रिमबुद्धिः अङ्कीयप्रौद्योगिकी च कृषिक्षेत्रं अधिकं उत्पादकं स्वावलम्बिनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुतः। सोनलगोयलः भारतबाङ्ग्लादेशसीमया सम्बद्धानां आन्तरिकसुरक्षायाः प्रशासनिकचुनौतीनां च विषये स्वविचारान् प्रस्तुतवती। अमिताभरञ्जनः सीमावर्तिक्षेत्राणां विकासे शासकीययोजनानां भूमिकां प्रतिपादितवान्।
समापनसमारोहे डी.एच.ई. इत्यनेन निर्मितस्य ‘तेजस ओलम्पियाड्’ इत्यस्य लोकार्पणम् अपि कृतम्। त्रिदिवसीये आयोजने शिक्षायाः, राष्ट्रियसुरक्षायाः, सांस्कृतिकचेतनायाः, प्रौद्योगिकविकासस्य, सामाजिकसामञ्जस्यस्य च विषये सम्पन्नैः संवादैः विकसितभारतस्य निर्माणे गुणवत्तापूर्णशिक्षायाः नवाचारस्य च भूमिकायाः महत्त्वं रेखाङ्कितम्।
---------------
Hindusthan Samachar / Dheeraj Maithani