उत्तराखण्डे शारदीयनवरात्रस्य उत्साह: , मन्दिरेषु श्रद्धालूनां महान् सम्मर्दः
देहरादूनम्, ११ अक्टोबरमासः (हि.स.)। उत्तराखण्डे शारदीयनवरात्रपर्व श्रद्धया हर्षोल्लासेन च आचर्यते। रविवासरे नवरात्रस्य प्रथमदिने सम्पूर्णे प्रदेशे श्रद्धालवः दुर्गायाः प्रथमस्वरूपस्य भगवत्याः शैलपुत्र्याः पूजनार्चनं कृत्वा सुखसमृद्ध्योः कल्याणस्य च
मुख्यमंत्री पुष्कर सिंह धामी नवरात्र के प्रथम दिवस पर मुख्यमंत्री आवास में मां दुर्गा की पूजा-अर्चना करते।


देहरादूनम्, ११ अक्टोबरमासः (हि.स.)। उत्तराखण्डे शारदीयनवरात्रपर्व श्रद्धया हर्षोल्लासेन च आचर्यते। रविवासरे नवरात्रस्य प्रथमदिने सम्पूर्णे प्रदेशे श्रद्धालवः दुर्गायाः प्रथमस्वरूपस्य भगवत्याः शैलपुत्र्याः पूजनार्चनं कृत्वा सुखसमृद्ध्योः कल्याणस्य च कामनाम् अकुर्वन्। मन्दिरेषु पूजनार्चनस्य सहैव गृहेष्वपि कलशस्थापनं कृत्वा नवदिना-त्मकानि अनुष्ठानानि प्रारब्धानि। अस्मिन् अवसरे राज्यपालः सेवानिवृत्तः लेफ्टिनेन्टजनरलः गुरमीतसिंहः तथा मुख्यमन्त्री पुष्करसिंहधामी च प्रदेशवासिभ्यः नवरात्रस्य शुभकामनाः प्रदत्तवन्तौ।

देहरादूने भगवत्याः डाटकालीमन्दिरे, भवनश्रीकालिकामातामन्दिरे, झण्डाविपणस्थे मातुः कालिकायाः मन्दिरे तथा रायपुरमार्गस्य तपोवनक्षेत्रस्थे मातुः कालिकायाः मन्दिरे श्रद्धालवः पूजनार्चनं कुर्वन्ति। नवरात्रकाले श्रद्धालवः व्रतानि धारयित्वा दुर्गायाः विविधस्वरूपाणाम् आराधनां कुर्वन्ति। गृहेष्वपि दुर्गासप्तशत्याः पाठेन, भजनैः कीर्तनैश्च भगवत्याः उपासनां क्रियते।

धर्मनगरी हरिद्वारेऽपि नवरात्रम् उपलक्ष्य धार्मिकः उत्साहः दृश्यते। मनसादेवीमन्दिरे, चण्डीदेवीमन्दिरे मायादेवीमन्दिरे च श्रद्धालवः पूजनार्चनं कृत्वा भगवत्याः आशीर्वादं प्राप्नुवन्ति। बिल्वपर्वते स्थितस्य मनसादेवीमन्दिरस्य तथा नीलपर्वते स्थितस्य चण्डीदेवीमन्दिरस्य दर्शनं विशेषधार्मिकमहत्त्वं वहति। प्राचीनमाया-देवीमन्दिरेऽपि श्रद्धालवः पूजनार्चनं कृत्वा परिवारस्य सुखसमृद्धेः कल्याणस्य च कामनां कुर्वन्ति।

शारदीयनवरात्रावसरे श्रीनगरस्य समीपे अलकनन्दानद्याः तटे स्थिते मातुः धारीदेव्याः मन्दिरे श्रद्धालवः पूजनार्चनं कुर्वन्ति। नवरात्रस्य प्रथमदिने श्रद्धालवः भगवत्याः दर्शनं कृत्वा सुखसमृद्ध्योः कल्याणस्य च कामनाम् अकुर्वन्। सिद्धपीठं धारीदेवीमन्दिरम् उत्तराखण्डस्य प्रमुखेषु धार्मिकस्थलेषु अन्यतमम् अस्ति। नवरात्रकाले अत्र भगवत्याः आराधनायाः विशेषं महत्त्वं मन्यते। श्रद्धालवः मातुः धारीदेव्याः समीपे परिवारस्य सुखशान्तेः कल्याणस्य च कामनां कुर्वन्ति।

राज्यपालः स्वस्य शुभकामनासन्देशे अवदत् यत् शारदीयनवरात्रम् भारतीय-संस्कृतेः श्रद्धायाश्च पवित्रं पर्व अस्ति, यत् शक्तेः, भक्तेः, सङ्कल्पस्य च महत्त्वं स्मारयति। दुर्गायाः नवानां स्वरूपाणाम् आराधना साहसस्य, धैर्यस्य तथा अन्यायस्य विरुद्धं स्थातुं प्रेरणां ददाति। एतत् पर्व महिलानां सम्मानस्य, सामाजिकसद्भावनायाः परस्परसौहार्दस्य च सुदृढीकरणस्य सन्देशमपि ददाति।

राज्यपालः कामनाम् अकरोत् यत् भगवत्याः दुर्गायाः कृपया प्रदेशवासिनां जीवने सुखसमृद्ध्योः प्रसारः भवेत् तथा उत्तराखण्डः शान्तेः, सौहार्दस्य, प्रगतेश्च नूतनानि सोपानानि स्थापयेत्।

मुख्यमन्त्री पुष्करसिंहधामी नवरात्रस्य प्रथमदिने मुख्यमन्त्रिनिवासे भगवत्याः दुर्गायाः पूजनार्चनम् अकरोत्। सः प्रदेशवासिनां सुखस्य, शान्तेः, समृद्धेः उत्तमस्वास्थ्यस्य च कामनां कुर्वन् सर्वेभ्यः शारदीयनवरात्रस्य शुभकामनाः प्रदत्तवान्।

शारदीयनवरात्रे नवदिनानि यावत् दुर्गायाः विविधस्वरूपाणां पूजनं क्रियते। धार्मिक-मान्यतानुसारम् एतत् पर्व शक्त्यु-पासनायाः, दुष्टस्य उपरि श्रेष्ठस्य तथा अधर्मस्य उपरि धर्मस्य विजयस्य च प्रतीकम् अस्ति।

Hindusthan Samachar / Divya Ranjan