Enter your Email Address to subscribe to our newsletters

चमोली, १२ अक्टोबरमासः (हि.स.)। प्रधानमन्त्री धनधान्यकृषियोजनायाः कार्या-न्वयनस्य एकवर्षं पूर्णम् अभवत्। अस्य अवसरस्य सोमवासरे, १२ अक्टोबर-मासे २०२६ दिनाङ्के नवदिल्लीस्थे एनएएससी-परिसरे आयो-जिते राष्ट्रिय-कार्यक्रमे चमोलीजनपदः सस्यवैविध्यस्य क्षेत्रे उत्कृष्टकार्याणां कृते सम्मानितः। जनपदस्य पक्षतः मुख्यविकासाधिकारी डॉ. अभिषेकत्रिपाठी एतत् पुरस्कारं गृहीतवान्।
भारतसर्वकारस्य कृषककल्याण-मन्त्रालयेन आयोजिते अस्मिन् कार्यक्रमे प्रधानमन्त्री धनधान्यकृषियोजनायाः अन्तर्गतं देशस्य विभिन्नजनपदानां कार्याणां विविधेषु उत्पादनसम्बद्धेषु परिणामाधारित-मापदण्डेषु च मूल्याङ्कनं कृतम्। अस्मिन् मूल्याङ्कने सस्य-वैविध्यस्य वर्धनाय, स्थायिकृषिपद्धतीनां प्रोत्साहनाय च उत्कृष्टं प्रदर्शनं कृतवान् इति कारणेन चमोलीजनपदः सम्माननार्थं चयनितः।
एतत् सम्मानं जनपदे कृषिक्षेत्रं अधिकं विविधतापूर्णं, स्थायि, लाभप्रदं च कर्तुं क्रियमाणान् प्रयासान् रेखाङ्कयति। सस्यवैविध्यस्य प्रोत्साहनेन कृषकाः पारम्परिकसस्यै: सह अन्यानि उपयुक्तानि सस्यानि अपि स्वीकर्तुं, कृष्युत्पादनस्य उत्तमावसरान् अन्वेष्टुं, आजीविका-साधनानि सुदृढानि कर्तुं च समर्थाः भवन्ति।
प्रधानमन्त्री धनधान्यकृषियोजनायाः उद्देश्यम् कृषिक्षेत्रे उत्पादकत्वस्य वर्धनम्, स्थायीकृषिपद्धतिनां प्रोत्साहनम्, कृषका-णाम् आयस्य आजीविकायाश्च सुदृढी-करणाय लक्षितप्रयासानां करणं च अस्ति। चमोलीजनपदेन प्राप्तम् एतत् सम्मानं कृषिक्षेत्रे नवाचारस्य, सस्यवैविध्यस्य, सततविकासस्य च दिशि क्रियमाणानां प्रयासानां महत्त्वपूर्णा उपलब्धिः अस्ति।
Hindusthan Samachar / Divya Ranjan