षट् राज्येषु राज्यपालानां नियुक्तिः, ओमप्रकाशमाथुरः केरलम्, आर्लेकरः तमिलनाडुं च प्रेषितौ
नवदिल्ली, १२ अक्टूबरमासः (हि.स.)। राष्ट्रपतिना सोमवासरे षड्राज्येषु राज्यपालानां नियुक्तेः घोषणा कृता। तदनुसारं सिक्किमस्य राज्यपालः ओमप्रकाशमाथुरः केरलस्य राज्यपालत्वेन तथा केरलस्य राज्यपालः राजेन्द्रविश्वनाथ आर्लेकरः तमिलनाडुराज्यस्य राज्यपालत्वे
षट् राज्येषु राज्यपालानां नियुक्तिः, ओमप्रकाशमाथुरः केरलम्, आर्लेकरः तमिलनाडुं च प्रेषितौ


नवदिल्ली, १२ अक्टूबरमासः (हि.स.)। राष्ट्रपतिना सोमवासरे षड्राज्येषु राज्यपालानां नियुक्तेः घोषणा कृता। तदनुसारं सिक्किमस्य राज्यपालः ओमप्रकाशमाथुरः केरलस्य राज्यपालत्वेन तथा केरलस्य राज्यपालः राजेन्द्रविश्वनाथ आर्लेकरः तमिलनाडुराज्यस्य राज्यपालत्वेन नियुक्तः।

राष्ट्रपतिभवनात् निर्गतायाः विज्ञप्त्याः अनुसारं ब्रजमोहनरामः ओडिशाराज्यस्य राज्यपालत्वेन नियुक्तः, यदा तु डॉ. सुधायादवः कर्नाटकराज्यस्य तथा डॉ. ढालसिंहबिसेनः उत्तराखण्डराज्यस्य राज्यपालत्वेन नियुक्तौ।

विज्ञप्त्याः अनुसारं भारतीयजनतापक्षस्य पूर्वराष्ट्रियमहासचिवः दुष्यन्तगौतमः सिक्किमराज्यस्य राज्यपालत्वेन नियुक्तः।

राष्ट्रपतिभवनात् निर्गतायां पत्रकारविज्ञप्तौ उक्तं यत् एतासां सर्वासां नियुक्तीनां प्रभावः सम्बन्धितराज्यपालैः स्वस्वपदस्य कार्यभारग्रहणस्य दिनाङ्कात् आरभ्य भविष्यति।

Hindusthan Samachar / Sachin Budhauliya