देशस्य सीमासु नियुक्तेभ्यः सैनिकेभ्यः अधुना भोजने ‘भारततण्डुलः’ प्राप्स्यते
लद्दाखस्य पूर्वोत्तरभारतस्य च दूरस्थक्षेत्रेषु सेनायाः आपूर्तिभण्डारपर्यन्तं प्रत्यक्षं प्रेषयिष्यते। नवदिल्ली, १२ अक्टोबरमासः (हि.स.)। भारतीयसेना सीमासु नियुक्तानां सैनिकानां कृते ‘भारततण्डुलम्’ इति तण्डुलस्य वितरणम् आरब्धवती। एते तण्डुलाः लद्दाख
सैनिकों के लिए 'भारत चावल' लांच करते रक्षा मंत्री राजनाथ सिंह


लद्दाखस्य पूर्वोत्तरभारतस्य च दूरस्थक्षेत्रेषु सेनायाः आपूर्तिभण्डारपर्यन्तं प्रत्यक्षं प्रेषयिष्यते।

नवदिल्ली, १२ अक्टोबरमासः (हि.स.)। भारतीयसेना सीमासु नियुक्तानां सैनिकानां कृते ‘भारततण्डुलम्’ इति तण्डुलस्य वितरणम् आरब्धवती। एते तण्डुलाः लद्दाखस्य पूर्वोत्तरभारतस्य च दूरस्थक्षेत्रेषु सेनायाः आपूर्तिभण्डारपर्यन्तं प्रत्यक्षं प्रेषयिष्यन्ते। अस्याः व्यवस्थायाः कृते सोमवासरे नवदिल्ली इत्यत्र भारतीयसेनायाः भारतीयखाद्यनिगमस्य च मध्ये आपत्कालीनपरिचालनपरिस्थितिषु एफसीआई-संरचनायाः उपयोगार्थम् एकस्मिन् सन्धिपत्रे हस्ताक्षराणि अपि कृतानि। उच्चगुणवत्तायुक्ताः एते तण्डुलाः अधुना स्थानीयैः एफसीआई-गोदाम इत्येतै: सेनायाः भण्डारेषु नीताः भविष्यन्ति।

रक्षामन्त्री स्वसम्बोधने ‘भारततण्डुलम्’ इति कृषकस्य क्षेत्रात् आरभ्य सैनिकस्य भोजनपात्रपर्यन्तं प्राप्यमाणस्य विश्वास-बन्धस्य प्रतीकरूपेण वर्णितवान्। सः अवदत् यत् एषा योजना ‘जय जवान, जय किसान’ इति भावनायाः साकाररूपम् अस्ति, यतः कृषकस्य परिश्रमः सैनिकस्य शक्तौ परिणमते। सः एतदपि अवदत् यत् एषा योजना लघ्वी इव प्रतीयते, किन्तु दूरस्थेषु दुर्गमेषु च क्षेत्रेषु खाद्यान्नस्य आपूर्तिं कुर्वद्भ्यः सैनिकेभ्यः महतीं सहायतां प्रदास्यति। सैनिकानां परिचालनसज्जता केवलं शस्त्रेषु न निर्भरति, अपितु तेषां शारीरिकस्वास्थ्ये, मानसिकस्थैर्ये, मनोबले, सहनशक्तौ च निर्भरति। विशेषतः यदा ते अत्यन्तं समस्यापूर्णासु परिस्थितिषु सेवां कुर्वन्ति, तदा एतेषां सर्वेषां महत्त्वं वर्धते।

रक्षामन्त्री अवदत् यत् आधुनिकयुद्धे शस्त्राणि, उपकरणानि, प्रौद्योगिकी च एव एकमात्राणि महत्त्वपूर्णानि तत्त्वानि न सन्ति, अपितु रसदव्यवस्था एव युद्धशक्तेः आधारः अस्ति। अद्यतनानि युद्धानि केवलं युद्धभूमौ एव न विजीयन्ते, अपितु आपूर्तिशृङ्खलानां सुदृढता, भण्डारण-क्षमता, परिवहनजालम्, भण्डार-णाधारभूतसंरचना, समये आपूर्तिकरणस्य क्षमता च समानरूपेण महत्त्वपूर्णां भूमिकां निर्वहन्ति। राजनाथसिंहः अवदत् यत् ‘ऑपरेशन सिन्दूर’ इत्यस्य सामरिकविश्लेषणेन स्पष्टं भवति यत् भविष्ये सङ्घर्षेषु पूर्वसूचनायाः समयः अत्यल्पः भवितुम् अर्हति। एतादृशी परिस्थितिः युद्धे प्रौद्योगिक्याः वर्धमानः उपयोगश्च अस्माकं सज्जतायाः कठिनपरीक्षां कर्तुं शक्नुतः।

रक्षामन्त्री अवदत् यत् एफसीआई-संस्थया सह कृतम् एतत् समझौतापत्रम् अस्मिन् दिशि महत्त्वपूर्णं सोपानम् अस्ति। एफसीआई-संस्थायाः समीपे देशस्य विभिन्नभागेषु, परिचालनदृष्ट्या महत्त्व-पूर्णक्षेत्रेषु च गोदामानि, भण्डारणाधार-भूतसंरचना, आधुनिकाः साइलो-भण्डाराः, सामग्रीप्रबन्धनोपकरणानि, प्रशिक्षितं च जनबलम् उपलब्धम् अस्ति। सः अवदत् यत् अधुना यथा युद्धविमानानि द्रुतमार्गेषु अवतरन्ति तथा सीमासडकसङ्घटनस्य मार्गाणां सेतूनां च उपयोगं स्थानीयजनाः अपि कुर्वन्ति, तथैव एफसीआई-संस्थायाः गोदाम इति अपि अधुना केवलं खाद्यभण्डारणे सीमितानि न भविष्यन्ति, अपितु भारतीयसेनायाः आपूर्तिशृङ्खलायाः अभिन्नानि अङ्गानि भविष्यन्ति।

अस्मिन् अवसरे सेनाप्रमुखः जनरलः धीरजसेठः, खाद्यसार्वजनिकवितरण-विभागस्य सचिवः सञ्जीवचोपड़ा, रक्षा-मन्त्रालयस्य, उपभोक्तृकार्याणां खाद्यस्य सार्वजनिकवितरणस्य च मन्त्रालयस्य, एफसीआई-संस्थायाः, राष्ट्रीयकृषि-सहकारीविपणनसङ्घस्य तथा सहकारी-क्षेत्रस्य वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan