Enter your Email Address to subscribe to our newsletters

अभिनेत्र्या सौन्दर्यशर्मा इत्यनया सह मातुः दुर्गायाः पूजार्चनां च कृतवान्
गिरिडीहम्, १२ अक्टोबरमासः (हि.स.)। भारतीयजनतापक्षस्य सांसदः भोजपुरीगायकः मनोजतिवारी च देशस्य युवभ्यः २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं निर्मातुं सकारात्मकं योगदानं दातुम् आह्वानम् अकरोत्। सः अवदत् यत् युवभिः समाजे प्रसार्यमाणेभ्यः भ्रान्तिप्रचारैः दूरे स्थित्वा अध्ययनं वृत्तिनिर्माणं च प्रति ध्यानं दातव्यम्। मनोजतिवारी सोमवासरे गिरिडीहे पत्रकारैः सह वार्तालापं कुर्वन् आसीत्।
दिल्लीस्थिते जन्तर-मन्तरे प्रचलितस्य प्रदर्शनस्य सम्बन्धे पृष्टे प्रश्नस्य उत्तरे सः अवदत् यत् कस्यापि राजनैतिकदलस्य सदस्यः कुत्रापि विरोधं प्रदर्शनं च कर्तुं शक्नोति। प्रशासनस्य अनुमतिं प्राप्य शान्तिपूर्णं प्रदर्शनं कर्तुं किमपि प्रतिबन्धः नास्ति। तथापि सः युवभ्यः देशे अराजकतां प्रसारयितुं प्रयुज्यमानात् कथितात् भ्रामकप्रचारात् सावधानाः भवितुम् आह्वानम् अकरोत्।
मनोजतिवारी झारखण्डे छात्राणां प्रदर्शनकाले कथितस्य मारपीटनस्य घटनायाः अपि उल्लेखम् अकरोत्। सः अवदत् यत् तेन तासां घटनानां सूचना प्राप्ता अस्ति, यासु प्रदर्शनं कुर्वतां छात्रै: सह ताडनं कृतम्। सः युवभ्यः कस्यामपि भ्रान्तौ न पतित्वा शिक्षायां स्वभविष्ये च ध्यानं केन्द्रितुं आग्रहं कृतवान्।
गिरिडीहविधानसभाक्षेत्रे सम्भावितस्य उपनिर्वाचनस्य भाजपाप्रत्याशिनः च विषये पृष्टे प्रश्नस्य उत्तरे मनोजतिवारी अवदत् यत् दलस्य कोटिशः कार्यकर्तारः सन्ति। अतः प्रत्याशिपदाय अनेकेषां भवितुम्, तदर्थं प्रयत्नं च कर्तुं स्वाभाविकम् अस्ति। सः अवदत् यत् दलं यं प्रत्याशिनं चयनं करोति, तस्य पक्षे सङ्घटनं कार्यकर्तारश्च तिष्ठन्ति।
मातुः दुर्गायाः पूजार्चनां च कृत्वा सुखसमृद्धेः कामना
अस्मात् पूर्वं मनोजतिवारी अभिनेत्र्या सौन्दर्यशर्मणा सह गिरिडीहम् आगतवान्। उभौ विनोदसिन्हस्य निवासं गत्वा शारदीयनवरात्रस्य अवसरे मातुः दुर्गायाः पूजार्चनां च कृतवन्तौ तथा क्षेत्रस्य सुखसमृद्ध्योः कल्याणस्य च कामनां कृतवन्तौ।
Hindusthan Samachar / Divya Ranjan