मध्यप्रदेशस्य कान्हा एशियाखण्डस्य बृहत्तमं राष्ट्रीय-उद्यानम्, वन्यजीवानां प्राकृतिकं जीवनं द्रष्टुं एकवारम् अवश्यं समागच्छन्तु — मोहनयादवः
भोपालम्, १२ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् कान्हा-राष्ट्रीय-उद्यानं न केवलं भारतस्य, अपितु सम्पूर्णस्य एशियामहाद्वीपस्य बृहत्तमं राष्ट्रिय-उद्यानम् अस्ति। सः सर्वान् वन्यजीवप्रेमिणः, पर्यटकान् नागरिकान् च आह
मुख्यमंत्री को कान्हा टाइगर रिजर्व के दौरान पेंटिंग भेंट करते हुए


भोपालम्, १२ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् कान्हा-राष्ट्रीय-उद्यानं न केवलं भारतस्य, अपितु सम्पूर्णस्य एशियामहाद्वीपस्य बृहत्तमं राष्ट्रिय-उद्यानम् अस्ति। सः सर्वान् वन्यजीवप्रेमिणः, पर्यटकान् नागरिकान् च आह्वयन् अवदत् यत् वन्यजीवानां सहजीवनयुक्तं प्राकृतिकं जीवनं द्रष्टुं न्यूनातिन्यूनम् एकवारं कान्हा-राष्ट्रिय-उद्यानम् अवश्यं समागच्छन्तु।

मुख्यमन्त्री डॉ. यादवः सोमवासरे मण्डलाजनपदस्य कान्हा-किसली-क्षेत्रस्य भ्रमणसमये स्थानीयैः सञ्चारमाध्यम-प्रतिनिधिभिः सह वार्तालापं कुर्वन् आसीत्। सः अवदत् यत् सघनवनैः आच्छादितं कान्हा-राष्ट्रीय-उद्यानं मुख्यतया व्याघ्रैः, चीतैः, तरक्षुभिः, गजैः अन्यैः च अनेकैः वन्यजीवैः समृद्धम् अस्ति। प्रदेशस्य समृद्धेषु वनेषु सर्वेषां प्रकाराणां वन्यजीवानां कृते स्वकीयेषु प्राकृतिकावासेषु स्वच्छन्दतया विचरणस्य स्वातन्त्र्यम् अस्ति। प्रदेशे बारहसिङ्गा-मृगस्य अपि पुनर्जीवनं जातम्। अयं वन्यजीवः पृथिव्यां शनैः शनैः विलुप्तः भवति स्म। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः कुशलनेतृत्वे मार्गदर्शने च श्योपुरजनपदस्य कूनो-राष्ट्रिय-उद्याने चीता-पुनर्वासपरियोजना सफलतया अग्रे वर्धते।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् असमस्य मुख्यमन्त्रिणः हेमन्तविश्वसरमणः तस्य सर्वकारस्य च सहयोगेन मध्यप्रदेशे वन्यमहिषाणां पुनर्वासप्रक्रिया प्रारब्धा अस्ति। रविवासरे एव अत्र षट् मादामहिषाः अष्टौ नरमहिषाः च तेषां प्राकृतिकावासे विमुक्ताः। मुख्यमन्त्री अवदत् यत् प्रदेशस्य वनेषु व्याघ्राणां, चीतानां, तेंदुआनाम्, मगराणां, घडियालानां गृध्राणां च सङ्ख्या शीघ्रं वर्धते। अस्माकं वन्यजीवाः पर्यटनक्षेत्रे मध्यप्रदेशस्य गौरवं वर्धयन्ति।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् मध्यप्रदेशसर्वकारः वनानां, वन्यजीवानां प्राकृतिकसम्पदां च संरक्षणाय निरन्तरं प्रयत्नशीलः अस्ति। एतैः प्रयासैः प्रदेशस्य जैवविविधतायाः संरक्षणे तथा भाविवंशानां कृते प्राकृतिकसम्पदायाः रक्षणे च सहायता भविष्यति। सः अवदत् यत् व्याघ्राणां, तेंदुआनाम्, घडियालानां मकराणां च संरक्षणक्षेत्रे क्रियमाणाः प्रयासाः अस्माकं प्राकृतिकधरोहरं समृद्धतरं कुर्वन्ति। एतत् सर्वेषां कृते गर्वस्य विषयः अस्ति। मुख्यमन्त्री डॉ. यादवः प्रदेशस्य अस्याः समृद्धायाः वन्यजीवधरोहरस्य संरक्षणे योगदानं ददतां सर्वेषां जनानां अभिनन्दनम् अकरोत्।

Hindusthan Samachar / Divya Ranjan