Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ अक्टोबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः सोमवासरे नवदिल्ल्यां सशस्त्रबलानां क्रीडकान् जापानदेशे सम्पन्नेषु एशियाईक्रीडासु तैः प्रदर्शितस्य अद्यावधि सर्वश्रेष्ठप्रदर्शनस्य कृते सम्मानितवान्। जापानस्य आइची-नागोया-नगरे आयोजितासु एतासु क्रीडासु भारतीयसेनानां क्रीडकैः २७ पदकानि विजित्य भारतस्य ८५ पदकानां समग्रसङ्ख्यायां महत्त्वपूर्णं योगदानं प्रदत्तम्। सैनिकैः ६ स्वर्णपदकानि, ११ रजतपदकानि, १० कांस्यपदकानि च विजितानि। एतदर्थं रक्षामन्त्री तेषां अनुशासनस्य समर्पणस्य च प्रशंसाम् अकरोत्।
अन्ताराष्ट्रियक्रीडासु सेनानां अद्यावधि सर्वश्रेष्ठप्रदर्शनस्य उत्सवाचरणार्थम् आयोजिते अस्मिन् कार्यक्रमे उपभोक्तृ-कार्याणां, खाद्यस्य, सार्वजनिक-वितरणस्य च मन्त्री प्रह्लादजोशी अपि उपस्थितः आसीत्। त्रयाणां सेनानां कुलम् ९२ क्रीडकाः १९ क्रीडासु भागं गृहीतवन्तः तथा भारतस्य चतुर्थस्थानप्राप्तौ महत्त्वपूर्णं योगदानम् अददुः। भारतीयदलेन समग्रतया ८५ पदकानि विजितानि, येषु २१ स्वर्णपदकानि, २७ रजतपदकानि, ३७ कांस्यपदकानि च सन्ति। कार्यक्रमे रक्षामन्त्री क्रीडकैः सह सम्भाषणं कुर्वन् तेषां सफलतायाः श्रेयः अनुशासनाय, कठिनपरिश्रमाय, सामूहिकभावनायै, क्रीडाक्षेत्रे उत्कृष्ट-प्रदर्शनाय च अददात्। सः अवदत् यत् पदकविजयस्य यात्रायां महत् समर्पणम्, प्रातःकाले प्रशिक्षणम्, व्यायामशालायां अभ्याससत्राणि, आघाताः, स्वास्थ्य-पुनःप्राप्तिः, निरन्तरप्रयत्नाश्च अन्तर्भवन्ति।
राजनाथसिंहः क्रीडासु भागं गृहीतवद्भ्यः क्रीडकेभ्यः सम्बोधनं कुर्वन् अवदत् यत् प्रत्येकं प्रतिभागी केनचित् प्रकारेण देशस्य रक्षाबलानां च गौरववर्धने योगदानम् अकरोत्। क्रीडकानां क्षमतायां विश्वासं प्रकटयन् सः अवदत् यत् तेषाम् उपलब्धयः आगामिपीढीन् निरन्तरं प्रेरयिष्यन्ति। योग्यक्रीडकानां चयनाय, तेषां क्षमतानां विकासाय, वैज्ञानिकप्रशिक्षणस्य विश्व-स्तरीयक्रीडासुविधानां च प्रदानेन अन्ताराष्ट्रियप्रतियोगितानां कृते तान् सज्जीकर्तुं च ‘मिशन ओलम्पिक विङ्ग्’ इत्यस्य महत्त्वपूर्णां भूमिकां प्रति रक्षामन्त्री विशेषं बलम् अददात्। प्रशिक्षकाणां, सहायककर्मचारिणां, शरीरक्रिया-विशेषज्ञानां, पोषणविशेषज्ञानां, क्रीडकानां परिवारजनानां च योगदानमपि सः स्वीकृतवान्। कश्चन विजेता कदापि एकाकी न भवतीति तथ्ये अपि सः बलम् अयच्छत्।
भारतस्य पदकसूच्यां सशस्त्रबलानां क्रीडकाणां योगदानं ३२ प्रतिशतं तथा स्वर्णपदकानां प्राप्तौ तेषां योगदानं २८.५७ प्रतिशतं आसीत्। उत्कृष्टप्रदर्शनकर्तृषु नायबसूबेदारः नीरू ढाण्डा प्रमुखा अस्ति। सा द्वे स्वर्णपदके, एकं रजतपदकं च विजितवती। एतासु क्रीडासु महिलानां व्यक्तिगत-ट्रैप-क्रीडाप्रकारे स्वर्णपदकं विजेतृषु सा प्रथमा भारतीयमहिला अभवत्।
नायबसूबेदारः गुलवीरसिंहः द्वे रजतपदके, एकं कांस्यपदकं च विजितवान्। सः एशियाईक्रीडायाः एकस्मिन्नेव संस्करणे त्रिषु व्यक्तिगतस्पर्धासु पदकानि विजितवान् प्रथमः भारतीयपुरुषः धावन-क्रीडकः अभवत्। हवलदारः सावनबरवालः पुरुषाणां मैराथनस्पर्धायां २ होता: ११ निमेषाः ३७ पला: इति राष्ट्रियाभिलेखसमये रजतपदकं विजितवान्। अनेन एशियाई-क्रीडासु मैराथनस्पर्धायां पदकप्राप्तये भारतस्य ४४ वर्षाणां प्रतीक्षा समाप्ता। नायबसूबेदारः सर्वेशः कुशारे अपि ५६ वर्षाणाम् अन्तरालानन्तरं पुरुषाणां उच्चकूर्दनस्पर्धायां भारताय ऐतिहासिकं पदकं प्राप्तवान्।
Hindusthan Samachar / Divya Ranjan