धनधान्यकृषियोजनायां मध्यप्रदेशस्य टीकमगढजनपदाय राष्ट्रियः सम्मानः प्राप्तः, शिवराजसिंहः सम्मानितवान्।
गोधूमोत्पादने अष्टसहस्राधिकाष्टतिसहस्रमितस्य मेट्रिकटनपरिमाणस्य वृद्धिः अभवत् भोपालम् , १२ अक्टूबरमासः (हि.स.)। कृष्युत्पादनस्य वर्धनाय, जलसंरक्षणाय ग्रामीणविकाससम्बद्धेषु विविधेषु मानकेषु च श्रेष्ठप्रदर्शनस्य कृते मध्यप्रदेशस्य टीकमगढजनपदः राष्
केंद्रीय मंत्री शिवराज सिंह से सम्मान लेते हुए टीकमगढ़ कलेक्टर विवेक श्रोत्रिय


- गोधूमोत्पादने अष्टसहस्राधिकाष्टतिसहस्रमितस्य मेट्रिकटनपरिमाणस्य वृद्धिः अभवत्

भोपालम् , १२ अक्टूबरमासः (हि.स.)। कृष्युत्पादनस्य वर्धनाय, जलसंरक्षणाय ग्रामीणविकाससम्बद्धेषु विविधेषु मानकेषु च श्रेष्ठप्रदर्शनस्य कृते मध्यप्रदेशस्य टीकमगढजनपदः राष्ट्रियरूपेण सम्मानितः अभवत्। प्रधानमन्त्री धनधान्यकृषियोजनायाः अन्तर्गतं प्राप्तया अस्य उपलब्ध्या सह जनपदे गोधूमोत्पादनं वर्धित्वा ६.९२ लक्षमेट्रिकटनमितं जातम्। उडदस्य वपनक्षेत्रमपि निर्धारितलक्ष्याद् १६.६८ प्रतिशतं अधिकं अभिलिखितम्।

नवदिल्लीस्थे एनएएससी परिसरे सोमवासरे आयोजिते कार्यक्रमे केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः टीकमगढस्य जिलाधिकारी विवेकश्रोत्रियाय सम्मानम् अयच्छत्। योजनायाः एकवर्षपूर्त्यवसरे आयोजिते कार्यक्रमे मध्यप्रदेशस्य पञ्च जनपदाः स्वकीयाभिः उपलब्धिभिः सम्मानिताः। टीकमगढस्य अतिरिक्तम् उमरिया, सीधी, शहडोल, डिण्डोरी इत्येतेषां जनपदानां जिलाधिकारिणोऽपि सम्मानिताः। एतेषां जनपदानां चयनं कृषिग्रामीणविकाससम्बद्धानां प्रमुखप्रदर्शनसूचकानाम् आधारेण कृतम्।

जिलाधिकारी श्रोत्रियः अवदत् यत् केन्द्रसर्वकारः योजनायाः अन्तर्गतं चयनितानां जनपदानां प्रगतेः नियमितमासिकसमीक्षां करोति। एतदर्थं धनधान्यकृषियोजनायाः सूचनापट्टिकायां पञ्जीकृतानाम् आँकडानां निर्धारितानां प्रमुखप्रदर्शनसूचकानां च तुलनया जनपदानाम् उपलब्धीनाम् आकलनं क्रियते।

टीकमगढे गोधूमोत्पादनस्य आँकडेषु उल्लेखनीया वृद्धिः अभिलिखिता। २०२३ २४ तमे वर्षे जनपदे ६.१२ लक्षमेट्रिकटनमितं गोधूमोत्पादनम् अभवत्। २०२५ २६ तमे वर्षे एतद् वर्धित्वा ६.९२ लक्षमेट्रिकटनमितं जातम्। एवं द्वयोः वर्षयोः मध्ये उत्पादनस्य प्रायः अष्टतिसहस्रमेट्रिकटनमिता वृद्धिः अभवत्। गोधूमकृषेः क्षेत्रफलमपि वर्धितम्। २०२३ २४ तमे वर्षे यत्र २.०८ लक्षहेक्टेयरमिते क्षेत्रे गोधूमस्य वपनम् अभवत्, तत्रैव २०२५ २६ तमे वर्षे अस्य क्षेत्रफलम् २.२२ लक्षहेक्टेयरादपि अधिकं जातम्। उत्पादने क्षेत्रफले च जाता एषा वृद्धिः जनपदस्य कृषिप्रदर्शनसम्बद्धासु प्रमुखोपलब्धिषु अन्तर्भाविता।

वर्षाकालीनसस्योत्पादनस्य ऋतौ अपि टीकमगढेन निर्धारितं लक्ष्यम् प्राप्तम्। जनपदे वर्षाकालीनसस्यानां कुलक्षेत्रफलम् २,३०,८१० हेक्टेयरमितम् आसीत्, यदा तु लक्ष्यं २,३०,८०० हेक्टेयरमितं निर्धारितम् आसीत्। उडदस्य वपनक्षेत्रं निर्धारितलक्ष्याद् १६.६८ प्रतिशतं अधिकम् अभिलिखितम्। जलसंरक्षणक्षेत्रेऽपि जनपदेन प्रगतिः साधिता। योजनायाः अन्तर्गतं १३४ नवीनजलसञ्चयनसंरचनानां निर्माणस्य लक्ष्यं पूरितम्। तथापि जलविभाजकक्षेत्रविकासस्य घटके लक्ष्यं पूर्णतया न प्राप्तम्। अस्य अन्तर्गतं ८,९७५ हेक्टेयरमिते क्षेत्रे कार्यकरणस्य लक्ष्यं निर्धारितम् आसीत्, किन्तु ७,३९२ हेक्टेयरमिते क्षेत्रे एव कार्यं कृतम्।

कृषेः अतिरिक्तम् आजीविकायाः अन्येषां साधनानां संवर्धनस्य विषयेऽपि जनपदस्य उपलब्धयः प्रकाशं प्राप्तवत्यः। मत्स्यपालनक्षेत्रे ४६१ एककानां स्थापनस्य लक्ष्यं निर्धारितम् आसीत्, किन्तु जनपदे ५२९ एककानि अभिलिखितानि। एवं अस्मिन् क्षेत्रे निर्धारितलक्ष्यादधिकम् उपलब्धं जातम्। प्राकृतिककृषौ कृषकाणां सहभागितापि वर्धिता। जनपदे ५,२२५ कृषकाः २,०९० हेक्टेयरमिते क्षेत्रे प्राकृतिककृषिं कुर्वन्ति। एतदतिरिक्तं १,९८३ कृषकाः जैविककृष्या सम्बद्धाः सन्ति। एते प्रयासाः कृषेः विविधीकरणस्य वैकल्पिककृषेः च संवर्धनस्य दिशि महत्त्वपूर्णाः मन्यन्ते।

सहकारिताक्षेत्रेऽपि जनपदेन निर्धारितव्यवस्थाः पूर्णाः कृताः। टीकमगढस्य सर्वासु ६४ प्राथमिककृषिसाखसहकारीसमितिषु सङ्गणकसामग्री, अन्तर्जालसुविधा, ईपैक्ससम्बद्धव्यवस्थाश्च पूर्णाः कृताः। एतेन समितीनां कार्यसञ्चालने अङ्कीयसुविधानाम् उपयोगस्य आधारः सज्जीकृतः।

ग्रामीणार्थव्यवस्थायां महिलानां सहभागितां वर्धयितुं क्रियमाणानां प्रयासानाम् अन्तर्गतं महिला कृषक उत्पादककम्पन्या सह १,२०० महिलाः सम्बद्धाः सन्ति। कृषिः, मत्स्यपालनम्, प्राकृतिककृषिः, सहकारिता, जलसंरक्षणं च सम्बद्धाः उपलब्धयः जनपदस्य समग्रकृषिग्रामीणविकासप्रदर्शनस्य अङ्गत्वेन स्वीकृताः। प्रधानमन्त्री धनधान्यकृषियोजनायाः अन्तर्गतं प्राप्ते राष्ट्रियसम्माने एतेषु विविधक्षेत्रेषु अभिलिखितायाः प्रगतेः महत्त्वपूर्णा

भूमिका आसीत्।

Hindusthan Samachar / Dheeraj Maithani