मिशन-शक्तिः - जागरूकताशोभायात्रायै मुख्यमन्त्रिणा हरितध्वजः प्रदर्शितः
गोरखपुरम्, १२ अक्टोबरमासः (हि.स.)। महिलानां सुरक्षायाः, सम्मानस्य, स्वावलम्बनस्य च ध्येयम् साकारं कर्तुं प्रदेशसर्वकारस्य बहुआयामी अभियानं ‘मिशन-शक्तिः’ मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे अग्रे वर्धितवान्। शारदीयनवरात्रस्य द्वितीयायां तिथौ जगज्ज
गोरखपुर में मिशन शक्ति के छठवें चरण के तहत जागरूकता रैली को हरी झंडी दिखाकर रवाना करते मुख्यमंत्री योगी आदित्यनाथ। रैली में 500 दोपहिया वाहन शामिल रहे।


गोरखपुरम्, १२ अक्टोबरमासः (हि.स.)। महिलानां सुरक्षायाः, सम्मानस्य, स्वावलम्बनस्य च ध्येयम् साकारं कर्तुं प्रदेशसर्वकारस्य बहुआयामी अभियानं ‘मिशन-शक्तिः’ मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे अग्रे वर्धितवान्। शारदीयनवरात्रस्य द्वितीयायां तिथौ जगज्जनन्याः आदिशक्तेः द्वितीयस्वरूपायाः मातरं ब्रह्मचारिणीं प्रति श्रद्धां समर्प्य मुख्यमन्त्री गोरखपुरे ‘मिशन-शक्तिः’ जागरूकताशोभायात्रां हरितध्वजं प्रदर्श्य प्रस्थापितवान्।

योगिराजबाबागम्भीरनाथप्रेक्षागृहे कृषकेभ्यः प्रत्यक्षलाभान्तरणमाध्यमेन सस्यहानिपूर्त्यर्थं कृषिनिवेशानुदानराशेः हस्तान्तरणात् पूर्वं मुख्यमन्त्री योगी प्रेक्षागृहपरिसरात् मिशन-शक्तेः षष्ठ-चरणस्य अन्तर्गतं जागरूकता-शोभायात्राया: शुभारम्भम् अकरोत्। अस्यां शोभायात्रायां पञ्चशतानि द्विचक्रिका-वाहनानि सम्मिलितानि आसन्।

जागरूकताशोभायात्रायां हरितध्वजं प्रदर्श्य प्रस्थापयित्वा मुख्यमन्त्री सामाजिक-माध्यमे प्रकाशिते सन्देशे अवदत्, “द्वि-इञ्जिनयुक्तः सर्वकारः मातृशक्तेः सुरक्षां, सम्मानं, स्वावलम्बनं च सुनिश्चितं कर्तुं पूर्णप्रतिबद्धतया कार्यं कुर्वन् अस्ति। नारीसशक्तीकरणमेव सुरक्षितस्य, समृद्धस्य, विकसितस्य च उत्तरप्रदेशस्य आधारशिला अस्ति।”

जागरूकताशोभायात्राया: शुभारम्भावसरे प्रदेशसर्वकारस्य कृषिमन्त्री सूर्यप्रताप-शाही, सांसदः रविकिशनशुक्लः, महापौरः डॉ. मङ्गलेशश्रीवास्तवः, विधायकाः फतेहबहादुरसिंहः, श्रीरामचौहानः, विपिन-सिंहः, महेन्द्रपालसिंहः, डॉ. विमलेश-पासवानः, प्रदीपशुक्लः, विधान-परिषद्सदस्यः डॉ. धर्मेन्द्रसिंहः, सर्वण-निषादः, राज्य-महिला-आयोगस्य उपा-ध्यक्षा चारूचौधरी च उपस्थिताः आसन्। तैः सह प्रशासनस्य आरक्षकबलस्य च वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan