जनसेवा मम कृते पूजासदृशी — केशवप्रसादमौर्यः
जनतादरबारे आवासः, चिकित्सा, निवृत्तिवेतनं दिव्याङ्गजनानां समस्याश्च श्रुताः, अधिकारिभ्यः शीघ्रसमाधानस्य निर्देशाः लखनऊ, १२ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव-प्रसादमौर्यः सोमवासरे कालिदासमार्गे स्थिते स्वनिवासे जनतादरबारम् आयो
जनता दर्शन में उपमुख्यमंत्री केशव प्रसाद मौर्य समस्याएं सुनते हुए।


जनता दर्शन में उपमुख्यमंत्री केशव प्रसाद मौर्य समस्याएं सुनते हुए।


जनतादरबारे आवासः, चिकित्सा, निवृत्तिवेतनं दिव्याङ्गजनानां समस्याश्च श्रुताः, अधिकारिभ्यः शीघ्रसमाधानस्य निर्देशाः

लखनऊ, १२ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव-प्रसादमौर्यः सोमवासरे कालिदासमार्गे स्थिते स्वनिवासे जनतादरबारम् आयोज्य प्रदेशस्य विभिन्नजनपदेभ्यः आगतानां जनानां समस्याः अशृणोत्।

सः सम्बन्धिताधिकारिभिः दूरभाषमाध्यमेन लिखितरूपेण च सम्पर्कं कृत्वा पात्रजनानां समस्याः प्राथमिकतया समाधातुं तथा सर्वकारीययोजनानां लाभं आवश्यकता-ग्रस्तेभ्यः जनेभ्यः प्रापयितुं निर्देशान् दत्तवान्।

उपमुख्यमन्त्री अवदत्, “अहं जनसेवायै सर्वदा उपलब्धः अस्मि। जनसमस्यानां समाधानं मम कृते पूजाकरणस्य समानम् अस्ति।” सः जनसूचनानां निस्तारणे संवेदनशीलतया शीघ्रतया च कार्यं कर्तुं अधिकारिभ्यः निर्देशान् दत्तवान्।

जनतादरबारे सीतापुरजनपदस्य दिव्याङ्गः कमलदीपः मोटरचालितत्रिचक्रिकां प्रदातुं अनुरोधं कृतवान्। अस्मिन् विषये उपमुख्यमन्त्री सीतापुरस्य जनपदा-धिकारिणे लिखितरूपेण मौखिकरूपेण च निर्देशान् दत्त्वा तस्मै तत्कालं त्रिचक्रिकां प्रदातुं निर्दिष्टवान्।

Hindusthan Samachar / Divya Ranjan