Enter your Email Address to subscribe to our newsletters

- प्रधानमन्त्री ग्रामसडकयोजनायाः अन्तर्गतं ६१० ग्रामावासान् मार्गसम्पर्केण संयोजयितुं लक्ष्यम्
नवदिल्ली, १२ अक्टूबर (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी सोमवासरे केन्द्रीयकृषिमन्त्रिणा कृषककल्याणमन्त्रिणा ग्रामीणविकासमन्त्रिणा च शिवराजसिंहचौहानेन सह मिलित्वा प्रधानमन्त्री ग्रामसडकयोजनायाः अन्तर्गतं राज्यस्य ३१५ मार्गाणां प्रस्तावान् शीघ्रं स्वीकर्तुं अनुरोधम् अकरोत्। एतेषां मार्गाणां निर्माणेन प्रदेशस्य ६१० ग्रामावासान् मार्गसम्पर्केण संयोजयितुं लक्ष्यम् अस्ति।
मुख्यमन्त्री केन्द्रीयमन्त्रिणम् अवगतवान् यत् पर्वतीयभौगोलिकपरिस्थितियुक्ते उत्तराखण्डस्य दूरस्थेषु ग्रामीणक्षेत्रेषु च मार्गसम्पर्कस्य विस्तारः आवश्यकः अस्ति। प्रस्तावितानां मार्गाणां निर्माणेन ग्रामीणजनसंख्यायाः आवागमनाय शिक्षायै स्वास्थ्यसेवाभ्यः रोजगारसम्बद्धसुविधाभ्यश्च प्राप्तुं सौकर्यं भविष्यति।
मुख्यमन्त्री अवदत् यत् मार्गसम्पर्कस्य सुधारणेन सीमावर्तिनां दुर्गमक्षेत्राणां विकासः गतिं प्राप्स्यति तथा ग्रामीणार्थव्यवस्थायाः सुदृढीकरणमपि भविष्यति। तेन केन्द्रसर्वकारम् एतेषां प्रस्तावानां शीघ्रं स्वीकृतिप्रदानाय आग्रहः कृतः।
केन्द्रीयमन्त्री चौहानः मुख्यमन्त्रिणम् आश्वासितवान् यत् राज्यपक्षतः प्रस्तुतानां मार्गप्रस्तावानां शीघ्रस्वीकृत्यर्थम् आवश्यकाः कार्यवाहीः क्रियन्ते।
मुख्यमन्त्री केन्द्रसर्वकारस्य सहकारितायै कृतज्ञतां प्रकटयन् अवदत् यत् राज्यसर्वकारः ग्रामीणदूरस्थक्षेत्रेषु च आधारभूतसुविधानां विस्ताराय प्रयत्नशीलः अस्ति। तेन उक्तं यत् प्रधानमन्त्री ग्रामसडकयोजनायाः अन्तर्गतं मार्गाणां निर्माणं प्रदेशस्य समग्रविकासे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
Hindusthan Samachar / Dheeraj Maithani