Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, १२ अक्टोबरमासः (हि.स.)। जनपदे स्वास्थ्यसेवानां सुदृढीकरणस्य दिशि सर्वकारेण महत्त्वपूर्णं पदं स्वीकृतम्। हरिद्वारे मन्त्रीमण्डलस्य सभायाः अनन्तरं मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् सम्प्रति हरिद्वारे एकं वैद्यकीयमहाविद्यालयं सञ्चालितम् अस्ति, अधुना द्वितीयस्य वैद्यकीयमहाविद्यालयस्य स्थापनायाः सज्जता क्रियते। एतत् नूतनं महाविद्यालयं कर्मचारीराज्यबीमानिगमस्य माध्यमेन सञ्चालितं भविष्यति। अस्य कृते दश एकर् भूमेः उपलब्धतायाः प्रस्तावाय मन्त्री-मण्डलेन अनुमतिः प्रदत्ता।
मन्त्रिमण्डलसभायाः अनन्तरं मुख्यमन्त्री सूचनां दत्त्वा अवदत् यत् ईएसआई-वैद्यकीयमहाविद्यालयस्य प्रारम्भेण जनपदे न केवलं वैद्यकीयशिक्षायाः अवसराः वर्धिष्यन्ते, अपितु सामान्यजनानाम् उत्तमचिकित्सासुविधाः अपि प्राप्स्यन्ते। भूमिहस्तान्तरणस्य प्रक्रिया अग्रे वर्ध्यते। मन्त्रीमण्डलस्य एषा स्वीकृतिः नूतन-वैद्यकीयमहाविद्यालयस्य स्थापनायाः दिशि महत्त्वपूर्णं पदं मन्यते। अनेन हरिद्वारे स्वास्थ्यसेवासु वर्धमानः भारः न्यूनी-भविष्यति इति अपेक्षा अस्ति।
Hindusthan Samachar / Divya Ranjan