‘रामायणे’ जटायोः प्रवेशः, अनुपम खेरः स्वरं प्रदास्यति।
मुंबई, 13 अक्टूबरमासः (हि.स.)। नितेशतिवारिणो निर्देशनें निर्मीयमाणायाः ‘रामायण’ इति चलचित्रस्य निर्मातृभिः जटायोः नवीनं पोस्टर् प्रकाशितम्। अस्मिन् पौराणिकपात्रे अभिनेता अनुपम खेरः स्वरं प्रदास्यति। पोस्टरमध्ये जटायोः विशालपक्षयोः प्रभावशालिव्यक्
अनूपम खेर - फोटो सोर्स एक्स


मुंबई, 13 अक्टूबरमासः (हि.स.)।

नितेशतिवारिणो निर्देशनें निर्मीयमाणायाः ‘रामायण’ इति चलचित्रस्य निर्मातृभिः जटायोः नवीनं पोस्टर् प्रकाशितम्। अस्मिन् पौराणिकपात्रे अभिनेता अनुपम खेरः स्वरं प्रदास्यति। पोस्टरमध्ये जटायोः विशालपक्षयोः प्रभावशालिव्यक्तित्वस्य च झलक् प्रदर्शिता अस्ति। ‘धर्मस्य पक्षौ’ इति शीर्षकयुक्तम् एतत् पोस्टर् साहसस्य, बलिदानस्य, सत्यस्य पक्षे स्थातुं च तस्य सङ्कल्पं प्रदर्शयति।

‘रामायण’ इति चलचित्रे जटायुः मातुः सीतायाः रावणस्य बन्धनात् मोचनार्थं तेन सह युद्धं करोति। रावणस्य शक्तिं ज्ञात्वा अपि सः धर्मस्य रक्षणार्थं तस्य सम्मुखीभवति। निर्मातृभिः पोस्टरं प्रकाशित्य जटायुः साहसस्य धर्मस्य च प्रतीकः इति वर्णितः। चलचित्रस्य पात्राणां पोस्टरप्रकाशनस्य क्रमे अस्य नवीनस्य उद्घाटनस्य कारणेन दर्शकानाम् उत्सुकता वर्धते।

नमित मल्होत्रा इत्यस्य प्राइम फोकस् स्टूडियोज् इति संस्थया डीएनईजी तथा यशस्य मॉन्स्टर माइण्ड् क्रिएशन्स् इत्येताभ्यां संस्थाभ्यां सहकार्येण चलचित्रस् निर्माणं कृतम्। चलचित्रे रणबीर कपूरः भगवान् रामस्य, साई पल्लवी माता सीतायाः, यशः रावणस्य, सनी देओलः हनुमतः, रवि दुबे च लक्ष्मणस्य भूमिकायां दृश्यन्ते।

द्वयोः भागयोः निर्मीयमाणायाः अस्याः महागाथायाः प्रथमः भागः २०२६ तमस्य वर्षस्य नवम्बरमासस्य पञ्चमे दिनाङ्के विश्वस्य विविधेषु चलचित्रगृहेषु प्रदर्शितः भविष्यति, द्वितीयः भागः तु २०२७ तमे वर्षे दीपावलीपर्वणि प्रदर्शितः भविष्यति। चलचित्रमिदं हिन्दी, तमिल, तेलुगु, कन्नड, मलयालम इत्येतासु भाषासु प्रदर्शितं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani