Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 13 अक्टूबरमासः (हि.स.)।
भारतीयमुष्टियुद्धस्य सुदृढीकरणाय ४० कोटिरूप्यकाणां वित्तीयसहायता, इण्डियन ऑयल् द्विवर्षपर्यन्तं प्रतिभाः परिष्करिष्यति।
भारतीयमुष्टियुद्धस्य सुदृढीकरणाय राष्ट्रियक्रीडाविकासनिधिः, भारतीयक्रीडाप्राधिकरणम् (साई) तथा इण्डियन ऑयल् कॉरपोरेशन इत्येताभिः संस्थाभिः सहकारिता स्थापिता। अस्याः पहलस्य अन्तर्गतं इण्डियन ऑयल् आगामिषु द्विवर्षेषु ४० कोटिरूप्यकाणि निवेशयिष्यति। अस्याः राशेः उपयोगः प्रतिभान्वेषणाय, क्रीडकानां विकासाय, प्रशिक्षणाय, क्रीडाविज्ञानाय, अन्ताराष्ट्रीयानुभवप्राप्तये, मुष्टियुद्धप्रशिक्षणकेन्द्राणां सुदृढीकरणाय च क्रियते।
केन्द्रीययुवकार्यक्रमक्रीडामन्त्री डॉ. मनसुख माण्डवियः अस्यां सहकारितायां देशे क्रीडाविकासाय निगमक्षेत्रस्य सहभागितां वर्धयितुं महत्त्वपूर्णं पदक्षेपम् इति वर्णितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani