Enter your Email Address to subscribe to our newsletters

मुम्बई, १४ अक्टोबरमासः (हि.स.)। अजयदेवगनस्य ‘दृश्यम्-३’ चलचित्रं चलच्चित्रव्यापारे उत्कृष्टं प्रदर्शनं कुर्वत् अस्ति, किन्तु अस्य निर्देशकः अभिषेकपाठकः कथायाः अग्रे विस्तारं कर्तुं न स्वीकृतवान्। सः स्पष्टम् अकरोत् यत् चलचित्रस्य कथा स्वस्य परिणतिं प्राप्तवती अस्ति तथा च सम्प्रति चतुर्थभागस्य निर्माणस्य कापि योजना नास्ति। तस्य मतानुसारं कस्यापि चलचित्रशृङ्खलायाः विस्तारस्य निर्णयः केवलं तस्याः सफलतायाः आधारेण न कर्तव्यः।
एकस्मिन् साक्षात्कारे अभिषेकः अवदत् यत् तस्य आशा अस्ति यत् अग्रिमेषु वर्षेष्वपि अक्टोबरमासस्य द्वितीयदिनं ‘दृश्यम्-दिवसः’ इति रूपेण स्मरिष्यते। सः अवदत् यत् दर्शकेभ्य: चलचित्रं रोचते तथा च ते तस्य विषये चर्चामपि कुर्वन्ति, किन्तु कथा सम्पूर्णा अभवत्। निर्देशकस्य अनुसारं बहवः जनाः तं चतुर्थभागस्य सम्भावनां विषये पृच्छन्ति, परन्तु कथायाः विस्तारः एव चलचित्रनिर्माणस्य उद्देश्यं नास्ति। सः वर्तमानचलचित्रस्य अन्त्यं चलचित्रशृङ्खलायाः कृते उपयुक्तम् अवदत्।
अभिषेकः चलचित्रस्य द्वितीयसप्ताहान्ते प्राप्तस्य प्रदर्शनस्य विषये अपि प्रसन्नतां प्रकटितवान्। तस्य अनुसारम् अस्मिन् काले चलचित्रेण ६० कोटिरूप्यकाणाम् अधिकस्य व्यवसायः कृतः, यत् अनेकानि चलचित्राणि स्वस्य सम्पूर्णप्रदर्शनकाले अपि यावतीं आयं प्राप्नुवन्ति, ततोऽपि अधिकम् अस्ति।
अक्टोबरमासस्य द्वितीयदिनाङ्के प्रदर्शिते ‘दृश्यम्-३’ चलचित्रे अजयदेवगनः पुनः विजय-सालगाँवकरस्य भूमिकां निर्वहति। चलचित्रे तब्बू, श्रियाशरणः, इशितादत्ता तथा जयदीप-अहलावतः अपि प्रमुखासु भूमिकासु सन्ति।
Hindusthan Samachar / Divya Ranjan