Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिण्याः रेखागुप्तायाः अध्यक्षतायां दिल्लीमन्त्रिमण्डलेन दिल्ली औद्योगिकनीतिः २०२६ अनुमोदिता। दशवर्षार्थं निर्मितायाः अस्याः नीतेः उद्देश्यम् राजधानीं स्वच्छं, ज्ञानाधारितं, उच्चप्रौद्योगिकियुक्तं च औद्योगिककेन्द्ररूपेण विकसितुम् अस्ति। एतदतिरिक्तं मुख्यमन्त्रिणः उद्यमश्रीयोजनायै वित्तवर्षात् २०२६-२७ आरभ्य २०३०-३१ पर्यन्तं पञ्चवर्षेषु सहस्रकोटिरूप्यकाणां प्रावधानम् अपि स्वीकृतम्। सर्वकारस्य दावः अस्ति यत् नवीननीत्या निवेशाकर्षणे, उद्योगानां आधुनिकीकरणे, रोजगारसृजने च गतिः भविष्यति।
मुख्यमन्त्रिकार्यालयेन बुधवासरे निर्गतायाः सूचनायाः अनुसारं नीतौ सूचनाप्रौद्योगिकी, वैश्विकक्षमताकेन्द्राणि, दत्तांशकेन्द्राणि, अनुसन्धानं विकासश्च, स्वास्थ्यसेवाः, नगरीयमालपरिवहनम्, चक्रीयार्थव्यवस्था, सूक्ष्मपरिशुद्धनिर्माणम्, कौशलविकासः, सूक्ष्मलघुमध्यमोद्यमानाम् आधुनिकीकरणम् इत्यादीनि दश प्राथमिकताक्षेत्राणि विशेषप्रोत्साहनार्थं निर्धारितानि सन्ति। एतेषु क्षेत्रेषु पूँजीनिवेशाय, कार्यालयभाटकाय, नवीननियुक्तिभ्यः, कौशलविकासाय, अनुसन्धानाय, ऊर्जादक्षतायै, प्रौद्योगिक्याः उन्नयनाय च वित्तीयसहायता प्रदास्यते।
मुख्यमन्त्रिणी रेखागुप्ता अवदत् यत् दिल्ली औद्योगिकनीतेः २०२६ उद्देश्यम् राजधानीम् उन्नतप्रौद्योगिकेः, वैश्विकक्षमताकेन्द्राणां, दत्तांशकेन्द्राणां, स्वास्थ्यसेवानाम्, अनुसन्धानविकासयोः तथा आधुनिकनिर्माणस्य प्रमुखकेन्द्ररूपेण विकसितुम् अस्ति। तया उक्तं यत् नवीननीतेः अन्तर्गतं स्वच्छानाम् अप्रदूषणकारीणाम् उद्योगानां प्रोत्साहनं करिष्यते, येन निवेशे रोजगारसृजने च वृद्धिः भविष्यति।
नीतेः अन्तर्गतं सूचनाप्रौद्योगिकी, सूचनाप्रौद्योगिकीसम्बद्धसेवाः तथा अङ्कीयसेवाः इत्येतेभ्यः अङ्कीयमूलसंरचनायाः, कार्यालयभाटकस्य, मेघसङ्गणनासेवानां, नवीननियुक्तीनां च विषये प्रोत्साहनं प्रदास्यते। वैश्विकक्षमताकेन्द्रेभ्यः अङ्कीयमूलसंरचनायै, अनुसन्धानविकासाय, प्रमाणीकरणाय, रोजगारसृजनाय च विशेषसहायता प्राप्स्यते। दत्तांशकेन्द्रक्षेत्रे पूँजीनिवेशाय, जलसंरक्षणाधारितशीतलीकरणप्रणालीनां स्थापनायै, साइबरसुरक्षानुपालनाय च सहायतायाः प्रावधानम् अस्ति।
अनुसन्धानविकासयोः, परीक्षणसुविधानां, स्वास्थ्यसेवानां च कृते अपि विशेषप्रोत्साहनं प्रदास्यते। बृहद्भ्यः चिकित्सालयेभ्यः, स्वास्थ्यसंवर्धनपरियोजनाभ्यः, अन्तरराष्ट्रीयस्तरीयप्रमाणीकरणेभ्यश्च वित्तीयसहायता प्रदास्यते। तथैव नगरीयमालपरिवहनस्य, शीतशृङ्खलायाः, हरित ऊर्जाधारितमूलसंरचनायाश्च विकासः प्रोत्साहयिष्यते।
चक्रीयार्थव्यवस्थायाः अपशिष्टप्रबन्धनस्य च अन्तर्गतं पुनर्चक्रणस्य, विद्युतीयकचराप्रबन्धनस्य, जैविककचरेण निर्मितानां प्रसंस्करणपरियोजनानां च प्रोत्साहनं करिष्यते। सूक्ष्मपरिशुद्धनिर्माणक्षेत्रे तथा सूक्ष्मलघुमध्यमोद्यमक्षेत्रे प्रौद्योगिकीयाधुनिकीकरणाय, ऊर्जादक्षतायै, सौरशक्तेः उपयोगाय च सहायता उपलब्धा भविष्यति।
नवीननीतौ महिला उद्यमिनीनां महिला कर्मचारिणां च कृते विशेषप्रावधानानि कृतानि सन्ति। महिलानेतृत्वाधीनोद्यमेभ्यः अधिकांशयोजनासु अधिका वित्तीयसहायता प्रदास्यते। महिला कर्मचारिणां नियुक्तिं कुर्वद्भ्यः संस्थानेभ्यः अतिरिक्तप्रोत्साहनं प्रदास्यते। कौशलविकासकार्यक्रमेषु महिलाभ्यः युवभ्यश्च प्राथमिकता प्रदास्यते।
नीतेः अन्तर्गतं ‘इन्वेस्ट दिल्ली’ निवेशकानां कृते एकसम्पर्ककेन्द्ररूपेण स्थापितं भविष्यति। एतदभिकरणं निवेशकेभ्यः परियोजनानां स्थापनायै, अनुमोदनप्राप्तये, प्रोत्साहनराशेः निर्गमनाय, शिकायतानां निवारणाय च एकस्मिन्नेव मञ्चे सहायता प्रदास्यति। ‘दिल्ली उद्योगमित्र’ जालद्वारस्य माध्यमेन एषा व्यवस्था निवेशसम्बद्धप्रक्रियाः सरलाः, शीघ्राः, पारदर्शिन्यश्च कर्तुं कार्यं करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani