Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 14 अक्टूबरमासः (हि.स.)।
शरदृतोरागमनेन सहैव ढाकवाद्यस्य ध्वनिना काशपुष्पाणां च लहरायमाणया शोभया पूर्वोत्तरभारतस्य प्रवेशद्वारं गुवाहाटीनगरम् उत्सवस्य विविधैः वर्णैः समलङ्कृतम् अभवत्। अधुना केवलं कतिपयदिनानाम् प्रतीक्षा अवशिष्टा अस्ति, यदनन्तरं पूजामण्डपेषु भगवत्याः दुर्गायाः आवाहनं भविष्यति। सम्प्रति सम्पूर्णनगरे दुर्गापूजायाः अन्तिमचरणस्य सज्जताः तीव्रतया प्रचलन्ति। श्रद्धालून् आकर्षितुं विशेषतया च विस्मयचकितान् कर्तुं प्रतिवर्षमिव अस्मिन्नपि वर्षे गुवाहाटीनगरस्य विविधाभिः पूजासमितिभिः विशिष्टाः आकर्षकाश्च विषयाधारिताः सज्जाः चयनिताः सन्ति।
अस्मिन् वर्षे गुवाहाटीनगरस्य प्रमुखाः पूजामण्डपाः तेषां च भव्याः विषयाधारिताः सज्जाः
बामुनीमैदाम् (डिज्नीलैण्ड्) — बालानां कल्पनालोकस्य आनन्दस्य च सन्देशं प्रसारयितुं अस्मिन् वर्षे बामुनीमैदामस्य पूजामण्डपः ‘डिज्नीलैण्ड्’ इत्यस्य प्रारूपेण अलङ्क्रियते।
गीतानगरम् (नेपालस्य जलप्लावनम्) — सामाजिकजागरूकतायाः प्राकृतिकविपत्तेः च दृश्यं प्रदर्शयितुं गीतानगरस्य पूजासमितिः अस्मिन् वर्षे ‘नेपालस्य जलप्लावनम्’ इति दृश्यं प्रस्तुतं करोति।
आठगाँव (वेङ्कटेश्वरस्वामिमन्दिरम्) — दक्षिणभारतस्य पारम्परिकधार्मिकवास्तुकलायाः अनुभवं प्रदातुम् आठगाँवस्य मण्डपः प्रसिद्धस्य ‘वेङ्कटेश्वरस्वामिमन्दिरस्य’ स्वरूपेण निर्मीयते।
पाण्डु बडाबाजार (द्वादशज्योतिर्लिङ्गानि) — भक्तानां आध्यात्मिकश्रद्धाम् अवलम्ब्य पाण्डु बडाबाजारे सनातनधर्मस्य पवित्राणां द्वादशज्योतिर्लिङ्गानां दर्शनं प्रदर्शयिष्यते।
लताशीलम् (केदारनाथमन्दिरम्) — हिमालयस्य पवित्रवातावरणस्य अनुभूतिं प्रदातुं लताशीलस्य पूजामण्डपः भव्यस्य केदारनाथमन्दिरस्य स्वरूपं धारयति।
पानबाजारम् (दशावतारः) — पानबाजारस्य दुर्गापूजासमितेः दशावतारमण्डपः ओडिशाराज्यस्य प्रसिद्धस्य जगन्नाथमन्दिरस्य शैल्यां सूक्ष्मतया निर्मीयते।
जयमतीनगरम्, बीजी कॉलोनी, मालीगाँवम् — मालीगाँवस्य जयमतीनगरस्थायाः बीजी कॉलोनी इत्यस्याः दुर्गापूजायाः मुख्याकर्षणं भगवान् शिवस्य परमभक्तः नन्दी महाराजः भविष्यति।
काहाइलीपाडा (द जंगल बुक्) — प्रकृतेः वन्यजीवानां च अद्भुतं समन्वयं प्रदर्शयितुं काहाइलीपाडायाः विषयाधारिता सज्जा प्रसिद्धस्य ‘द जंगल बुक्’ इति ग्रन्थस्य कथावस्तुम् आधारीकरोति। एषा सज्जा बालान् प्रौढांश्च समानरूपेण आकर्षयिष्यति।
विष्णुपुरम्, विमलानगरम् (किष्किन्धाकाण्डम्) — रामायणस्य पौराणिककथां सजीवां कर्तुं विष्णुपुरविमलानगरस्य पूजासमित्या ‘किष्किन्धाकाण्डम्’ इति विशिष्टा विषयाधारिता सज्जा चयनिता अस्ति।
तरुणसङ्घः (पञ्चषष्टिफुट् उन्नता साईबाबायाः प्रतिमा) — अस्मिन् वर्षे उत्सवस्य विशालतमम् आकर्षणं तरुणसङ्घः प्रस्तुतं करिष्यति। तस्य मण्डपस्य प्रमुखाकर्षणं पञ्चषष्टिफुट् उन्नता साईबाबायाः विशालप्रतिमा भविष्यति।
विष्णुपुरदुर्गापूजा (नागलोकस्य विषयाधारिता सज्जा) — विष्णुपुरस्य दुर्गापूजामण्डपः नागलोकस्य विषयाधारितया सज्जया समलङ्कृतः भविष्यति।
परम्परायाः, आधुनिकतायाः, धार्मिकश्रद्धायाः, कलात्मकप्रतिभायाश्च अद्भुतसमन्वयेन गुवाहाटीनगरस्य दुर्गापूजा अस्मिन् वर्षे नूतनम् आयामं प्राप्स्यति। पूजामण्डपानां निर्माणकार्यं विद्युद्दीपानां सज्जा च अधुना अन्तिमचरणे स्तः। प्रतिमादर्शनस्य उत्सवानन्दस्य च अनुभवनाय सम्पूर्णं नगरं पूर्णतया सज्जम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani