Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 अक्टूबरमासः (हि.स.)। केन्द्रीयमन्त्रिमण्डलेन बुधवासरे आईडीबीआई बैंके ६०.७२ प्रतिशतांशधारितायाः फेयरफैक्स फाइनेंशियल होल्डिंग्स् लिमिटेड् इत्यस्मै ५२,८७८.०८ कोटिरूप्यकाणां मूल्येन विक्रयणप्रस्तावाय अनुमोदनं प्रदत्तम्। एयर इण्डिया संस्थायाः विक्रयणानन्तरम् एषः देशस्य बृहत्तमः रणनीतिकविनिवेशः अस्ति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां आर्थिकविषयाणां मन्त्रिमण्डलीयसमित्या बुधवासरे आईडीबीआई बैंके रणनीतिकविनिवेशाय अनुमोदनं प्रदत्तम्। केन्द्रसर्वकारः आईडीबीआई बैंके स्वस्य ३०.४८ प्रतिशतांशधारितां तथा भारतीयजीवनबीमानिगमस्य ३०.२४ प्रतिशतांशधारितां च फेयरफैक्स फाइनेंशियल होल्डिंग्स् इत्यस्मै विक्रेष्यति। एतस्य विक्रयणस्य कुलमूल्यं ५२,८७८ कोटिरूप्यकाणि भविष्यति। एयर इण्डिया संस्थायाः विक्रयणानन्तरम् अयं देशस्य बृहत्तमः रणनीतिकविनिवेशः अस्ति।
सूचनाप्रसारणमन्त्री अश्विनीवैष्णवः अत्र पत्रकारसम्मेलने मन्त्रिमण्डलस्य निर्णयस्य सूचना प्रदत्तवान्। तेन उक्तं यत् पञ्चवर्षेभ्यः अधिककालात् प्रचलमानां विनिवेशप्रक्रियायाः समापनदिशि एषः महत्त्वपूर्णः सोपानः अस्ति। वैष्णवस्य अनुसारम्, एतस्य व्यवहारस्य समापनानन्तरं देशस्य वित्तीयक्षेत्रे अद्यावधि बृहत्तमः प्रत्यक्षविदेशीनिवेशः भविष्यति। में
अस्मिन् विक्रयणव्यवहारे केन्द्रसर्वकारस्य ३०.४८ प्रतिशतांशधारिता तथा भारतीयजीवनबीमानिगमस्य ३०.२४ प्रतिशतांशधारिता अन्तर्भवतः। अस्य रणनीतिकपुनर्गठनस्य अनन्तरम् आईडीबीआई बैंके केन्द्रसर्वकारस्य १५ प्रतिशतांशधारिता तथा भारतीयजीवनबीमानिगमस्य १९ प्रतिशतांशधारिता अवशिष्यते।
केन्द्रीयमन्त्रिणा उक्तं यत् मन्त्रिमण्डलीयार्थिकविषयसमित्या अस्य व्यवहारस्य कृते मेसर्स १०९५५२३० कनाडा इंक् इत्यस्य रणनीतिकक्रेतृरूपेण अनुमोदनं कृतम्। अस्याः संस्थायाः मूलकम्पनी मेसर्स फेयरफैक्स फाइनेंशियल होल्डिंग्स् लिमिटेड् अस्ति। एषा कम्पनी ५२,८७७.०८ कोटिरूप्यकाणां क्रयमूल्येन आईडीबीआई बैंके ६०.७२ प्रतिशतांशधारिताम् अधिग्रहीष्यति।
निवेशः लोकसम्पत्तिप्रबन्धनविभागस्य (दीपम्) सचिवः अरुणीशचावलः अवदत् यत् अधिग्रहणसम्बद्धः व्यवहारः चालूवित्तवर्षे २०२६-२७ तमे वर्षे सम्पूर्णः भविष्यति। तेन उक्तं यत् आईडीबीआई बैंके कर्मचारिणां हितानां पूर्णं ध्यानं रक्षिष्यते। फेयरफैक्स संस्थया अल्पांशभागधारकेभ्यः मुक्तक्रयप्रस्तावः अपि प्रदातव्यः भविष्यति।
सीएसबी बैंके अपि अंशधारितां धारयन्ती फेयरफैक्स संस्था द्वयोः वर्षयोः अन्तर्गतं आईडीबीआई बैंकेन सह सीएसबी बैंकस्य विलयनं कारयितुं वा सीएसबी बैंके स्वकीयां अंशधारितां विक्रीय निर्गन्तुं वा बाध्यते।
उल्लेखनीयम् अस्ति यत् केन्द्रसर्वकारस्य भारतीयजीवनबीमानिगमस्य च संयुक्तायाः ६०.७२ प्रतिशतांशधारितायाः प्रस्तावितविक्रयणेन आईडीबीआई बैंके नियन्त्रणं फेयरफैक्स संस्थायाः हस्ते गमिष्यति। तथापि, एषः व्यवहारः आवश्यकानाम् नियामकीयानुमतीनां प्राप्तेः अनन्तरमेव पूर्णः भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani