उपराज्यपालेन आन्तरिकचिकित्सापद्धतेः प्रोत्साहनार्थम् आयोजितस्य सम्मेलनस्य कृते श्रीनगरे स्थितं राजकीयचिकित्सामहाविद्यालयं वर्धापितम्।
श्रीनगरम्, 14 अक्टूबरमासः (हि.स.)। उपराज्यपालेन मनोजसिन्हेन अद्य श्रीन्य श्रीनगरे स्थितस्य राजकीयचिकित्सामहाविद्यालयस्य “आन्तरिकचिकित्सायाः प्रोत्साहनम् : साक्ष्येभ्यः चिकित्सकीयाभ्यासे उत्कृष्टतापर्यन्तम्” इति विषयमधिकृत्य सम्मेलनस्य आयोजनार्थं अ
उपराज्यपाल ने आंतरिक चिकित्सा को बढ़ावा देने वाले सम्मेलन के लिए श्रीनगर स्थित सरकारी चिकित्सा महाविद्यालय को बधाई दी


श्रीनगरम्, 14 अक्टूबरमासः (हि.स.)।

उपराज्यपालेन मनोजसिन्हेन अद्य श्रीन्य श्रीनगरे स्थितस्य राजकीयचिकित्सामहाविद्यालयस्य “आन्तरिकचिकित्सायाः प्रोत्साहनम् : साक्ष्येभ्यः चिकित्सकीयाभ्यासे उत्कृष्टतापर्यन्तम्” इति विषयमधिकृत्य सम्मेलनस्य आयोजनार्थं अभिनन्दनं कृतम्।

स्वसन्देशे उपराज्यपालेन समग्रस्य रोगिकेन्द्रितस्य च स्वास्थ्यसेवाप्रदानस्य विषये आन्तरिकचिकित्सायाः महत्त्वपूर्णभूमिकायाः विशेषरूपेण उल्लेखः कृतः।

उपराज्यपालः अवदत् यत् चिकित्सकानां समक्षं प्रायः सरलदृश्यमानलक्षणेभ्यः जटिलानाम् अन्तर्निहितानां स्वास्थ्यसम्बद्धानां समस्याणाम् अभिज्ञानस्य चुनौतीपूर्णं कार्यं भवति। आन्तरिकचिकित्सायाः शक्तिः मानवशरीरं परस्परसम्बद्धां व्यवस्थामिव अवगन्तुं तथा चिकित्सकीयज्ञानस्य, अनुभवस्य, सावधाननिरीक्षणस्य च माध्यमेन रोगिणः सम्पूर्णं चिकित्सकीयवृत्तान्तम् अवगन्तुं क्षमतायां निहिता अस्ति।

उपराज्यपालः अवदत् यत् निरीक्षणम्, तर्कशक्तिः, मानवीयावबोधः, साहसं च चिकित्सकस्य प्रमुखगुणाः सन्ति। तेन एतदपि प्रतिपादितं यत् चिकित्सकाः प्रायः परिवाराणां कृते चिकित्सासम्पर्कस्य प्रथमं माध्यमं भवन्ति। बहुषु प्रकरणेषु ते विश्वासे, करुणायां, वैज्ञानिकसाक्ष्येषु च आधारितान् स्थायिसम्बन्धान् निर्मान्ति, ये सम्बन्धाः पीढीभ्यः निरन्तरं प्रवहन्ति।

उपराज्यपालः स्वसन्देशे चिकित्साशिक्षायां स्वास्थ्यसेवायां च महत्त्वपूर्णं योगदानं दत्तवते श्रीनगरस्य राजकीयचिकित्सामहाविद्यालयाय प्रशंसाम् अर्पितवान्। तेन उक्तं यत् अस्मात् संस्थानात् प्रशिक्षितानां चिकित्सकानां अनेकाः पीढ्यः जम्मूकश्मीरप्रदेशे सम्पूर्णे देशे च सेवां कुर्वन्ति।

उपराज्यपालेन स्वास्थ्यसेवाक्षेत्रे उद्भवमानानां नवीनचुनौत्यनाम् अपि उल्लेखः कृतः।

तेन उक्तं यत् संक्रामकरोगाः अद्यापि चिन्तायाः विषयाः सन्ति। अपरतः मधुमेहः, उच्चरक्तचापः, स्थौल्यं, वसायुक्तयकृत् रोगः, हृदयरोगाश्च इत्यादयः जीवनशैलीसम्बद्धाः विकाराः महामारीरूपं धारयन्ति। निदानस्य, चिकित्सायाः, चिकित्साप्रौद्योगिकीनां च क्षेत्रेषु अभूतपूर्वप्रगतिः जाता अस्ति। एतेषां उपलब्धीनां लाभः नगरीयकेन्द्रेषु यथा प्रभावीरूपेण प्राप्यते, तथैव ग्रामीणदुर्गमक्षेत्रेषु स्थितेभ्यः चिकित्सकेभ्यः रोगिभ्यश्च अपि प्राप्येत इति सुनिश्चितं करणीयम्।

उपराज्यपालेन चिकित्साजगतः स्वदेशीयानुसन्धानं सुदृढीकर्तुं भारतस्य विविधजनसङ्ख्यायाः कृते प्रासङ्गिकानि वैज्ञानिकसाक्ष्याणि सङ्कलयितुं च आह्वानं कृतम्। तेन उक्तं यत् देशस्य जनसाङ्ख्यिकवैविध्यं चिकित्सकानां विशेषज्ञतया प्रतिबद्धतया च सह वैज्ञानिकान्वेषणस्य नवाचारस्य च कृते विपुलान् अवसरान् प्रददाति।

तेन उक्तं यत् चिकित्साविज्ञानक्षेत्रे ऐतिहासिकी प्रगतिः भवति तथा नवीनौषधानि निदानोपकरणानि च चिकित्सायाः नूतनान् मार्गान् उद्घाटितवन्ति। सम्प्रति सर्वाधिकम् आवश्यकं कार्यम् एतत् सुनिश्चितं करणीयम् अस्ति यत् एते नवाचाराः केवलं बृहन्नगराणां चिकित्सकानां कृते सीमिताः न भवन्तु, अपितु ग्रामेषु कार्यरतचिकित्सकानाम् अपि सुलभतया प्राप्नुयुः। सुविधानाम् उपलब्धानाम् उपकरणानां च प्राप्तिविषये नगरीयग्रामीणक्षेत्रयोः मध्ये किञ्चिदपि अन्तरं न तिष्ठेत् इति सुनिश्चितं करणीयम्। एतदेव अस्य सम्मेलनस्य प्रथमम् उद्देश्यं भवेत्।

Hindusthan Samachar / Dheeraj Maithani