मण्डीपरिषदेः १,१११ सम्पर्कमार्गाणां मरम्मतये ४७७ कोटिरूप्यकाणि विमोचितानि।
लखनऊ, 14 अक्टूबरमासः (हि.स.)।सम्पर्कमार्गाणां सुदृढीकरणाय गर्तमुक्तीकरणकार्याणां च गतिवर्धनाय राज्यकृष्युत्पादनमण्डीपरिषदा प्रायः ४७७ कोटिरूप्यकाणां राथस्वं विमोचितम्। एतया धनराश्या प्रदेशस्य अष्टादशमण्डलेषु १,१११ सम्पर्कमार्गाणां मरम्मतकार्यं सुदृ
सरकार का लोगो


लखनऊ, 14 अक्टूबरमासः (हि.स.)।सम्पर्कमार्गाणां सुदृढीकरणाय गर्तमुक्तीकरणकार्याणां च गतिवर्धनाय राज्यकृष्युत्पादनमण्डीपरिषदा प्रायः ४७७ कोटिरूप्यकाणां राथस्वं विमोचितम्। एतया धनराश्या प्रदेशस्य अष्टादशमण्डलेषु १,१११ सम्पर्कमार्गाणां मरम्मतकार्यं सुदृढीकरणकार्यं च कारयिष्यते। एतेषां मार्गाणां कुलदैर्घ्यं प्रायः १,७१४ किलोमीटर् अस्ति। अनेन कृषकाः स्वोत्पादितानि कृषिद्रव्याणि कृषिमण्डीः प्रति नेतुं सुविधां प्राप्स्यन्ति तथा ग्रामीणक्षेत्रेषु आवागमनं सुगमं भविष्यति।

सम्पर्कमार्गाणां रक्षया सुदृढीकरणेन च कृष्युत्पादैः भारितानां वाहनानाम् आवागमनं सुकरं भविष्यति। भग्नमार्गैः परिवहने जायमानाः कठिनताः न्यूनीभविष्यन्ति तथा कृषकाः स्वोत्पादानां परिवहने राहतिं प्राप्स्यन्ति।

मण्डलवारविवरणानुसारं कानपुरमण्डले सर्वाधिकानां १५८ सम्पर्कमार्गाणां मरम्मतायै सुदृढीकरणाय च ५०.६६ कोटिरूप्यकाणां राजस्वं विमोचितम्। एतेषां मार्गाणां कुलदैर्घ्यं २३५.३९ किलोमीटर् अस्ति। बरेलीमण्डले १५६ मार्गाणां कृते सर्वाधिकं ७४.८६ कोटिरूप्यकाणि स्वीकृतानि सन्ति। अत्र २२५.१५ किलोमीटर् दैर्घ्ययुक्तेषु सम्पर्कमार्गेषु कार्यं कारयिष्यते। लखनऊमण्डले १२९ मार्गाणां कृते ७२.६० कोटिरूप्यकाणि विमोचितानि, येषां कुलदैर्घ्यं २१५.४० किलोमीटर् अस्ति।

एवमेव झाँसीमण्डले ७७ मार्गाणां कृते ४४.११ कोटिरूप्यकाणि, आग्रामण्डले १०० मार्गाणां कृते ३५.८९ कोटिरूप्यकाणि, प्रयागराजमण्डले ८३ मार्गाणां कृते ३४.७३ कोटिरूप्यकाणि च विमोचितानि। अयोध्या, अलीगढ, मिर्जापुर इत्यादिषु अन्येषु मण्डलेषु अपि स्वीकृतानां सम्पर्कमार्गाणां मरम्मतं सुदृढीकरणं च कारयिष्यते।

मण्डीपरिषदः निदेशकः जितेन्द्रप्रतापसिंहः अवदत् यत् प्रदेशसर्वकारः मार्गान् गर्तमुक्तान् स्थापयितुं तेषां सुदृढीकरणाय च सर्वोच्चप्राथमिकतां ददाति। अस्मिन्नेव क्रमे मण्डीपरिषदा सम्पर्कमार्गाणां सुदृढीकरणस्य गर्तमुक्तीकरणस्य च कार्याणां गतिवर्धनं क्रियते। तेन स्पष्टं कृतं यत् निर्माणकार्याणां गुणवत्तायाः विषये कस्मिन्नपि स्तरे सहमतिर्न करिष्यते। सर्वाणि कार्याणि निर्धारितानां प्राविधिकमानकानाम् अनुरूपं निर्धारितसमये च सम्पादयिष्यन्ते। अनेन कृषकाणां ग्रामीणजनानां च कृते उत्तममार्गसुविधानां दीर्घकालिकः लाभः प्राप्स्यते।

Hindusthan Samachar / Dheeraj Maithani