Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 14 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे अत्र कनाडादेशस्य विदेशमन्त्रिण्या अनीताआनन्देन सह मिलितवान्। तयोः मध्ये भारतकनाडादेशयोः व्यापारः, प्रौद्योगिकी, सुरक्षा, ऊर्जा, शिक्षा, जनसम्पर्कः इत्येतेषु विविधक्षेत्रेषु सहकारितायाः सुदृढीकरणविषये चर्चा अभवत्।
मोदी सामाजिकमाध्यममञ्चे एक्स इत्यत्र मिलनस्य चित्रं साझा कृत्वा अवदत् यत् कनाडादेशस्य विदेशमन्त्रिण्या सह तस्य वार्तालापः सार्थकः आसीत्। सः अवदत् यत् भारतकनाडादेशयोः सम्बन्धान् विविधक्षेत्रेषु अधिकं सुदृढान् कर्तुं विचारविमर्शः अभवत्।
प्रधानमन्त्री अवदत्, “भारतं कनाडादेशेन सह रचनात्मकां दूरदर्शिनीं च रणनीतिकसहकारितां निर्मातुं प्रतिबद्धम् अस्ति, येन उभयोः देशयोः जनानां कृते दृढलाभाः प्राप्येरन्।”
-----------
Hindusthan Samachar / Dheeraj Maithani