Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 14 अक्टूबरमासः (हि.स.)।
प्रधानमन्त्रिसङ्ग्रहालयपुस्तकालयेन बुधवासरे प्रधानमन्त्रिसङ्ग्रहालयपरिसरे अमूल् उत्पादानां नूतनविक्रयकक्षः प्रारब्धः। सङ्ग्रहालयस्य प्रथमखण्डे स्थितस्य अस्य विक्रयकक्षस्य उद्घाटनं प्रधानमन्त्रिसङ्ग्रहालयपुस्तकालयस्य कार्यकारिणीसमित्याः अध्यक्षेण नृपेन्द्रमिश्रेण कृतम्। अस्मिन्नवसरे प्रधानमन्त्रिसङ्ग्रहालयपुस्तकालयस्य निदेशकः अश्वनीलोहानी अपि उपस्थितः आसीत्।
प्रधानमन्त्रिसङ्ग्रहालयपुस्तकालयेन निर्गतायाः विज्ञप्त्याः अनुसारम्, अस्य विक्रयकक्षस्य उद्देश्यम् सङ्ग्रहालयम् आगच्छद्भ्यः जनैः जलपानस्य लघ्वाहारस्य च सुविधा प्रदातुम् अस्ति। अनेन विशेषतः परिवारेभ्यः युवागन्तृभ्यश्च सुविधा भविष्यति।
अस्मिन् विक्रयकक्षे अमूल् संस्थायाः चतुर्भ्यः शतेभ्यः अधिकाः उत्पादाः उपलब्धाः भविष्यन्ति। एतेषु दुग्धजन्यपदार्थाः विविधप्रकारकाणि लघुभोजनानि च अन्तर्भवन्ति। अनेन सङ्ग्रहालयपरिसरे आगन्तारः परिचितान् गुणवत्तापूर्णान् खाद्यपदार्थान् सहजतया प्राप्तुं शक्ष्यन्ति।
प्रधानमन्त्रिसङ्ग्रहालयपुस्तकालयस्य अनुसारम्, प्रधानमन्त्रिसङ्ग्रहालयम् आगच्छतां जनानां वर्धमानां सङ्ख्यां दृष्ट्वा तेषां कृते सुविधाजनकम्, सुलभम्, स्वागतपूर्णं च अनुभवं सुनिश्चितं कर्तुं क्रियमाणानां प्रयासानाम् अयं उपक्रमः एकः भागः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani