Enter your Email Address to subscribe to our newsletters

जयपुरम्, 14 अक्टूबरमासः (हि.स.)।मादकतामुक्तभारतस्य सङ्कल्पनायाः भारतीयसंस्काराणां च प्रसारस्य उद्देश्यम् अवलम्ब्य जयपुरनगरे अक्टोबरमासस्य त्रिंशत्तमे दिनाङ्के पञ्चशताधिकैककुण्डात्मकः संस्कारमहायज्ञः आयोजयिष्यते। भारतविकासपरिषदः संस्कारप्रकल्पस्य आर्ययुवदलस्य च संयुक्ततत्त्वावधाने आयोज्यमानस्य अस्य कार्यक्रमस्य विज्ञप्तिपत्रस्य विमोचनं मङ्गलवासरे राज्यपालेन हरिभाऊबागडे इत्यनेन कृतम्। कार्यक्रमः वैशालीनगरे स्थिते डीएवी विद्यालये भविष्यति।
कार्यक्रमस्य संयोजिका डॉ. रीताभार्गवः, सहसंयोजकाः गुंजनसक्सेना, सञ्जीवभार्गवः, माध्यमप्रभारी आशीषशर्मा तथा डीएवी विद्यालयस्य प्रधानाचार्यः राजनगौतमः राज्यपालेन सह शिष्टाचारभेटं कृत्वा तम् मुख्यातिथिरूपेण आमन्त्रितवन्तः। आयोजकानाम् अनुसारं राज्यपालः आमन्त्रणं स्वीकृत्य महायज्ञस्य विज्ञप्तिपत्रस्य विमोचनम् अकरोत्।
कार्यक्रमस्य संयोजिका डॉ. रीताभार्गवा अवदत् यत् महायज्ञे विभिन्नविद्यालयानां प्रायः सहस्रं विद्यार्थिनः तेषां अभिभावकाश्च भागं ग्रहीष्यन्ति। एतदतिरिक्तं नगरस्य गणमान्यनागरिकाः सामाजिकसंस्थानां प्रतिनिधयश्च आमन्त्रिताः सन्ति।
महायज्ञस्य अवसरे नशामुक्तिक्षेत्रे उल्लेखनीयकार्यं कुर्वद्भ्यः व्यक्तिभ्यः संस्थाभ्यश्च सम्मानं प्रदास्यते। तदतिरिक्तं पर्यावरणसंरक्षणम्, स्वदेशीवस्तूनाम् अङ्गीकारः, सामाजिकसमरसता, परिवारप्रबोधनं, नागरिककर्तव्यानीत्यादिविषयाधारिताः प्रेरणादायकाः गतिविधयः आयोजयिष्यन्ते। आयोजनस्थले नशामुक्तभारताभियानस्य भारतीयसंस्कृतेः संस्काराणां च सम्बन्धिनी विशेषप्रदर्शनी अपि आयोजयिष्यते। कार्यक्रमस्य समापनावसरे प्रतिभागिभ्यः महाप्रसादस्य व्यवस्था भविष्यति।
माध्यमप्रभारी आशीषशर्मा अवदत् यत् अस्य आयोजनस्य उद्देश्यम् नवसन्ततौ भारतीयसंस्कारेषु जागरूकतायाः वर्धनम्, युवानः मादकद्रव्यसेवनात् दूरीकर्तुं प्रेरणम्, सकारात्मकजीवनमूल्यानां च प्रोत्साहनम् अस्ति। आयोजकानाम् अनुसारम्, अयं महायज्ञः धार्मिकानुष्ठानेन सह सामाजिकचेतनायाः स्वस्थजीवनशैल्याश्च सन्देशप्रसारणस्य माध्यमं भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani