Enter your Email Address to subscribe to our newsletters


- डिजिलॉकर-मञ्चे साक्षात् अङ्कीयपरिचयपत्राणि प्रदातुं लखनऊविश्वविद्यालयः देशस्य प्रथमः राज्यविश्वविद्यालयः अभवत्।
- योगिसर्वकारः उच्चशिक्षाव्यवस्थां अङ्कीयप्रौद्योगिक्या पत्ररहितव्यवस्थया च सुदृढां करोति, लखनऊविश्वविद्यालयस्य महत्त्वपूर्णः उपक्रमः।
लखनऊ, १४ अक्टोबरमासः (हि.स.)। उच्चशिक्षणसंस्थासु ‘डिजिलॉकर्’ इत्यस्य अधिकतमस्य प्रभाविणश्च उपयोगस्य योगिसर्वकारस्य परिकल्पनां साकारीकुर्वन् लखनऊविश्वविद्यालयेन छात्रसुविधानां क्षेत्रे ऐतिहासिकः कीर्तिमानः स्थापितः। विश्वविद्यालयेन शैक्षणिकसत्रे २०२६-२७ तमे प्रवेशं प्राप्तवद्भ्यः २१,२६८ छात्रच्छात्राभ्यः आधिकारिकानि परिचयपत्राणि भारतसर्वकारस्य डिजिलॉकर्-मञ्चे सफलतया समारोपितानि। एतादृशीं व्यापकाम् अङ्कीयपरिचयपत्रव्यवस्थां प्रवर्तयन् लखनऊविश्वविद्यालयः देशस्य प्रथमः राज्यविश्वविद्यालयः अभवत्।
प्रदेशस्य उच्चशिक्षामन्त्री योगेन्द्र उपाध्यायः लखनऊविश्वविद्यालयस्य अस्याः ऐतिहासिकोपलब्धेः प्रशंसाम् अकरोत्। सः अवदत् यत् मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे प्रदेशसर्वकारः उच्चशिक्षणसंस्थानि आधुनिकप्रौद्योगिक्या, पारदर्शितया, छात्रकेन्द्रितया च अङ्कीयव्यवस्थया सह सम्बद्धानि कर्तुं प्रतिबद्धतया कार्यं करोति। योगिसर्वकारस्य अभिलाषा अस्ति यत् विश्वविद्यालयेषु प्रशासनिकप्रक्रियाः पत्ररहिताः क्रियेरन्, येन विद्यार्थिनां बहुमूल्यः समयः रक्ष्येत तथा तेभ्यः पारदर्शिन्यः सेवाः प्राप्येरन्।
लखनऊविश्वविद्यालयेन देशे सर्वप्रथमं स्वस्य एकविंशतिसहस्राधिकानां नवप्रविष्टविद्यार्थिनां परिचयपत्राणि क्यूआर-सङ्केतेन सह डिजिलॉकर्-मञ्चे उपलब्धानि कृत्वा अङ्कीयोत्तरप्रदेशस्य दिशि युगान्तकारी उपक्रमः कृतः। एषा व्यवस्था न केवलं विद्यार्थिनः कार्यालयेषु पुनः पुनः गमनस्य कागदपत्रसम्बद्धानां च जटिलतानां मुक्तान् करिष्यति, अपितु जालसाजीम् अपि पूर्णतया निरोद्धुं साहाय्यं करिष्यति। राज्यस्य अन्ये विश्वविद्यालयाः अपि अस्य आदर्शस्य अनुसरणं कुर्युः।
लखनऊविश्वविद्यालयस्य प्रवक्ता प्रो. मुकुलश्रीवास्तवः अवदत् यत् कुलपतेः प्रो. जयप्रकाशसैनिनः नेतृत्वे विश्वविद्यालयेन छात्रहितैषिण्याः पत्ररहितप्रशासनव्यवस्थायाः दिशि एषा ऐतिहासिकी उपलब्धिः प्राप्ता। अस्याः अङ्कीयपहलस्य अन्तर्गतं सत्रे २०२६-२७ तमे स्नातकस्तरे, स्नातकोत्तरस्तरे, पीएचडी शोधकार्यक्रमेषु, डिप्लोमा-पाठ्यक्रमेषु, शास्त्री-पाठ्यक्रमेषु च प्रवेशं प्राप्तवन्तः सर्वे छात्रछात्राः समाविष्टाः सन्ति। एतत् परिचयपत्रं पूर्णतया क्यूआर-सङ्केताधारितम् अस्ति। पञ्जीकृताः विद्यार्थी अधुना डिजिलॉकर्-मञ्चे प्रवेशं कृत्वा स्वकीयायाः परिचयचित्रस्य अधः प्रदत्तस्य ‘जेनरेट् वीकार्ड्’ इति विकल्पस्य चयनं कृत्वा स्वकीयम् अङ्कीयपरिचयपत्रं सहजतया द्रष्टुं अवतारयितुं च शक्नुवन्ति।
डिजिलॉकर्-परिचयपत्रस्य (वीकार्ड्) प्रमुखविशेषताः लाभाश्च
एतत् परिचयपत्रं चतुर्विंशतिः होराः सप्तदिनानि च स्मार्टफोने उपलब्धं भवति। अतः विद्यार्थिभिः भौतिकं प्लास्टिकपत्रं सर्वदा धारयितुं आवश्यकता न भविष्यति। परिचयपत्रस्य नष्टतायाः, विदीर्णतायाः, चौर्यस्य च सम्भावना अपि समाप्ता भविष्यति।
एषा व्यवस्था पङ्क्तिषु तिष्ठनस्य जटिलप्रक्रियाणां च आवश्यकतां न्यूनीकरोति। नूतनशैक्षणिकसत्रे परिचयपत्राणां मुद्रणाय वितरणाय च अपेक्षितानां सप्ताहानां समयस्य रक्षणं जातम्। परिचयपत्रस्य नष्टे सति द्वितीयपरिचयपत्रं प्राप्तुं दीर्घप्रक्रियायाः अनुसरणस्य आवश्यकतापि न्यूनीभवति।
सूचनाप्रौद्योगिक्यधिनियमानुसारं डिजिलॉकर्-मञ्चे उपलब्धम् एतद् अङ्कीयपरिचयपत्रं भौतिकपरिचयपत्रस्य समानं शतप्रतिशतं विधिमान्यतां धारयति। अनेन शीघ्रं सत्यापनं विधिसम्मतस्वीकृतिश्च सम्भवति।
क्यूआर-सङ्केतं स्कैन् कृत्वा प्रतियोगितापरीक्षासु, बसयान-रेलयान-मेट्रोयानेषु रियायतप्राप्तौ, बैंकसम्बद्धकार्येषु अन्यासु च संस्थासु शीघ्रं सत्यापनं कर्तुं शक्यते। एषा व्यवस्था जालसाजीं निवारयति। परिचयपत्रप्रणाली विश्वविद्यालयस्य दत्तांशकोशेन छात्रस्य एपीएएआर्-परिचयसङ्ख्यया च प्रत्यक्षतया सम्बद्धा अस्ति। अतः जालीपरिचयपत्राणां निर्माणस्य सम्भावना अत्यल्पा भवति तथा पाठ्यक्रमस्य समाप्त्यनन्तरम् एतत् परिचयपत्रं स्वतः निष्क्रियं भविष्यति।
अस्य माध्यमेन विश्वविद्यालयपरिसरस्य सुविधानाम् उपयोगः अपि सुगमः भविष्यति। केन्द्रीयटैगोर्-पुस्तकालये, पठनकक्षेषु, सङ्गणकप्रयोगशालासु, छात्रावासेषु, क्रीडापरिसरेषु च विद्यार्थी स्वकीयस्य चलदूरभाषस्य माध्यमेन क्यूआर-सङ्केतं स्कैन् कारयित्वा शीघ्रं प्रवेशं प्राप्तुं शक्ष्यन्ति।
एषः उपक्रमः पर्यावरणसंरक्षणे हरितपरिसरनिर्माणे च सहायकः भविष्यति। एकविंशतिसहस्राधिकानां प्लास्टिकनिर्मितानां पीवीसी-परिचयपत्राणां लेमिनेशनपत्राणां च उपयोगस्य अभावेन प्लास्टिककचरायाः मात्रा न्यूनीभविष्यति। एतत् विश्वविद्यालयस्य हरितपरिसरनीतेः अनुकूलम् अस्ति।
अङ्कीयपरिचयपत्रं (वीकार्ड्) प्राप्तुं सरलप्रक्रिया
विद्यार्थिनः स्वस्मिन् स्मार्टफोने डिजिलॉकर्-अनुप्रयोगे अथवा तस्य जालद्वारे पञ्जीकृतविवरणैः प्रवेशं कुर्युः। ततः स्वकीयायाः परिचयचित्रस्य अधः प्रदत्तं ‘जेनरेट् वीकार्ड्’ इति विकल्पं चिनुयुः। विकल्पस्य चयनमात्रेण क्यूआर-सङ्केताधारितम् आधिकारिकम् अङ्कीयपरिचयपत्रं पटले प्रदर्शितं भविष्यति, यत् कदापि अवतारयितुं शक्यते।
Hindusthan Samachar / Dheeraj Maithani