शीतकाले कृषिकार्यार्थं नगदमूल्येन प्राप्स्यते आलुकबीजम्, प्रथमम् आगतः प्रथमं प्राप्स्यति
कुफरी-आनन्दः, ख्यातिः, मोहनः इत्येतासां प्रजातीनां बीजस्य मूल्यं निर्धारितम् अन्तर्जालीयम् आवेदनं कृत्वा प्रथमम् आगतः प्रथमं प्राप्स्यति इति आधारेण भविष्यति वितरणम् प्रयागराजः, १४ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य प्रयागराजे शीतकाले २०२६-२७ तमे
उद्यान विभाग का प्रतीक चिन्ह


कुफरी-आनन्दः, ख्यातिः, मोहनः इत्येतासां प्रजातीनां बीजस्य मूल्यं निर्धारितम्

अन्तर्जालीयम् आवेदनं कृत्वा प्रथमम् आगतः प्रथमं प्राप्स्यति इति आधारेण भविष्यति वितरणम्

प्रयागराजः, १४ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य प्रयागराजे शीतकाले २०२६-२७ तमे वर्षे आलुकस्य कृषिकर्म कुर्वद्भ्यः कृषकेभ्यः उद्यानविभागस्य पक्षतः नगदमूल्येन आलुकबीजं प्रदास्यते। एतदर्थं विभागेन विविधप्रजातीनां बीजानां च आकारानुसारं मूल्यदराः निर्धारिताः सन्ति। इच्छुकाः कृषकाः तथा आलुकोत्पादकाः कृषक-उत्पादक-सङ्घटनानि विभागस्य समेकित-सङ्केतस्थले अन्तर्जालीयम् आवेदनं कर्तुं शक्नुवन्ति।

एतां सूचनां बुधवासरे जनपदीयः उद्यानाधिकारी मेवारामः दत्तवान्।

सः अवदत् यत् कुफरी आनन्दः, कुफरी ख्यातिः तथा कुफरी मोहनः इत्येतासां प्रजातीनाम् आलुकबीजस्य विक्रयार्थं मूल्यदराः निर्धारिताः सन्ति। कुफरी आनन्दस्य बीजाकारस्य बीजस्य मूल्यं प्रतिकुन्तलम् ३६३० रूप्यकाणि निर्धारितम् अस्ति। तथैव कुफरी ख्यातिः तथा कुफरी मोहनः इत्येतयोः प्रजात्योः बीजाकारस्य बीजस्य मूल्यं प्रतिकुन्तलम् ३६३० रूप्यकाणि, अतिबृहदाकारस्य बीजस्य मूल्यं च प्रतिकुन्तलम् ३०४० रूप्यकाणि निर्धारितम् अस्ति।

सः अवदत् यत् प्रयागराजजनपदाय एतासां प्रजातीनाम् आलुकबीजस्य आवण्टनं कृतम् अस्ति। बीजं प्राप्तुम् इच्छन्तः कृषकाः तथा आलुकोत्पादकाः कृषक-उत्पादक-सङ्घटनानि विभागस्य समेकित-सङ्केतस्थले potato.uphorticulture.in इत्यत्र आवेदनं कर्तुं शक्नुवन्ति।

अन्तर्जालीयम् आवेदनं कृत्वा आवेदनपत्रं विकासभवने स्थिते जनपद-उद्यानाधिकारी-कार्यालयस्य ८५ तमे कक्षे समर्पयितव्यम्।

मेवारामः अवदत् यत् कृषकेभ्यः आलुकबीजस्य वितरणं प्रथमम् आगतः प्रथमं प्राप्स्यति इति आधारेण भविष्यति। अतः इच्छुकाः कृषकाः समयेन आवेदनं कृत्वा आवश्यकाः औपचारिकताः सम्पूरयेयुः, येन शीतकाले आलुककृष्यर्थं बीजप्राप्तौ तेभ्यः सुविधा भवेत्।

Hindusthan Samachar / Divya Ranjan