मुख्यमन्त्रिणा योगिना आदित्यनाथेन काश्याः कोतवालस्य कालभैरवस्य तथा बाबा विश्वनाथस्य च मन्दिरे उपस्थितिः प्रदत्ता।
— भगवतः पवित्रस्य ज्योतिर्लिङ्गस्य जलाभिषेकं कृत्वा षोडशोपचारविधिना पूजनम् अकरोत्। वाराणसी, १४ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे वाराणसीभ्रमणावसरे काश्याः कोतवालस्य बाबा कालभैरवस्य तथा श्रीकाशीविश्वनाथमन्दिर
मुख्यमंत्री योगी आदित्यनाथ बाबा विश्वनाथ के दरबार में


— भगवतः पवित्रस्य ज्योतिर्लिङ्गस्य जलाभिषेकं कृत्वा षोडशोपचारविधिना पूजनम् अकरोत्।

वाराणसी, १४ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे वाराणसीभ्रमणावसरे काश्याः कोतवालस्य बाबा कालभैरवस्य तथा श्रीकाशीविश्वनाथमन्दिरे विधिवत् दर्शनपूजनम् अकरोत्। द्विदिवसीयभ्रमणस्य प्रथमदिने मुख्यमन्त्री योगी आदित्यनाथः सर्वप्रथमं काश्याः कोतवालस्य बाबा कालभैरवस्य मन्दिरं प्राप्तवान्। तत्र सः विधिविधानपूर्वकं दर्शनपूजनं कृत्वा आरतीम् अकरोत्। ततः सः श्रीकाशीविश्वनाथमन्दिरं प्राप्तवान्। गर्भगृहे प्रविश्य ज्योतिर्लिङ्गस्य जलाभिषेकम् अकरोत् तथा षोडशोपचारविधिना पूजनं कृत्वा लोककल्याणस्य कामनाम् अकरोत्।

मुख्यमन्त्री योगी आदित्यनाथः प्रतिवारमिव अस्मिन्नपि अवसरे कालभैरवमन्दिरपरिसरस्य बहिः उपस्थितेभ्यः बालकेभ्यः सस्नेहं चॉकलेट् दत्तवान् तथा तैः सह तेषां पठनपाठनविषये चर्चाम् अकरोत्। बालकाः अपि मुख्यमन्त्रिणा सह अत्यन्तं सहजतया उत्साहपूर्वकं च सम्भाषणं कुर्वन्तः आसन्।

दर्शनपूजनस्य अवसरे मुख्यमन्त्रिणा सह प्रदेशस्य वित्तमन्त्री संसदीयकार्यमन्त्री च सुरेशखन्ना, मुद्राङ्कमन्त्री रविन्द्रजायसवालः, सूक्ष्मलघुमध्यमोद्यमराज्यमन्त्री हंसराजविश्वकर्मा, जिलापञ्चायताध्यक्षा पूनममौर्या, पूर्वमन्त्री विधायकश्च डॉ. नीलकण्ठतिवारी, विधायकः सौरभश्रीवास्तवः, विधायकः सुनीलपटेलः च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani