कर्करोगस्य निवारणाय जागरूकता, प्रारम्भिकनिदानं समये च उपचारः आवश्यकः - राधाकृष्णन्
नवदिल्ली, १४ अक्टोबरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् बुधवासरे प्रख्यातायाः शास्त्रीयनृत्याङ्गनायाः, लेखिकायाः भारतीयरेलयातायातसेवायाः च पूर्वाधिकारिण्याः डॉ. आनन्दा शङ्करजयन्त इत्यस्याः प्रेरणादायिकायाः संस्मरणपुस्तकस्य ‘डान्सिङ् विद
उपराष्ट्रपति सी. पी. राधाकृष्णन बुधवार को डॉ. आनंदा शंकर जयंत की संस्मरण पुस्तक ‘डांसिंग विद जॉय’ का उपराष्ट्रपति भवन में विमोचन करते हुए


नवदिल्ली, १४ अक्टोबरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् बुधवासरे प्रख्यातायाः शास्त्रीयनृत्याङ्गनायाः, लेखिकायाः भारतीयरेलयातायातसेवायाः च पूर्वाधिकारिण्याः डॉ. आनन्दा शङ्करजयन्त इत्यस्याः प्रेरणादायिकायाः संस्मरणपुस्तकस्य ‘डान्सिङ् विद् जॉय’ इत्यस्य उपराष्ट्रपतिभवने विमोचनं कृतवान्। सः अवदत् यत् कर्करोग-जनितमृत्यूनां निवारणाय जागरूकता, रोगस्य प्रारम्भिकनिदानं समये च उपचारः अत्यन्तम् आवश्यकाः सन्ति।

अस्मिन् अवसरे राधाकृष्णन् अवदत् यत् इदं पुस्तकं केवलं नृत्यस्य आनन्दस्य च कथा नास्ति, अपितु अनुरागस्य, कठिनपरिश्रमस्य, दृढनिश्चयस्य, स्वप्रतिभायाः परिचयं प्राप्य तस्याः विकासेन च लभ्यमानायाः असाधारण-शक्तेः प्रेरणादायकं वृत्तान्तम् अस्ति। सः अवदत् यत् पुस्तके लेखिकायाः कर्करोगेण सह संघर्षस्य यात्रा केवलं रोगस्य कथा नास्ति, अपितु कर्करोगानन्तरम् अपि जीवनं नव्यरूपेण जीवितुं प्रेरयन्त्याः यात्रायाः वर्णनम् अस्ति।

उपराष्ट्रपतिः अवदत् यत् वर्षाणां यावत् अनुशासनेन, अभ्यासेन, समर्पणेन च साधितं नृत्यं डॉ. आनन्दायाः सर्वातिशायिनी शक्तिः अभवत् तथा जीवनस्य कठिनानां समस्यानां सम्मुखिनं कर्तुं तस्यै साहाय्यं कृतवत्। पुस्तकस्य सन्देशः अस्ति यत् ‘डान्सर्’ अर्थात् नर्तकी इत्यस्य आङ्ग्लशब्दे विद्यमानं ‘डी’ अक्षरं लेखिकायै ‘क्यान्सर्’ इत्यस्य ‘सी’ अक्षरस्य उपरि विजयप्राप्त्यर्थं शक्तिं दत्तवान्। सः अवदत् यत् जीवने समुपस्थिताः प्रतिकूलपरिस्थितयः आत्मचिन्तनस्य नवीनसम्भावनानां च अन्वेषणस्य अवसराः अपि भवितुम् अर्हन्ति।

राधाकृष्णन् अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे देशे निवारक-स्वास्थ्यसेवानां, जागरूकतायाः, प्रारम्भिकपरीक्षणस्य च सुदृढीकरणं क्रियते। आयुष्मान् आरोग्यमन्दिराणि तथा असंसर्गजन्यरोगाणां निवारणनियन्त्रणयोः राष्ट्रियकार्यक्रमः इत्यादयः उपक्रमाः अस्मिन् दिशि महत्त्वपूर्णाः सन्ति। सः अवदत् यत् विभिन्नेषु राज्येषु कर्करोगोपचारसुविधानां विस्तारः रोगिभ्यः तेषां निवासस्थानस्य समीपे विशेषज्ञ-चिकित्सासेवाः उपलब्धाः कर्तुं साहाय्यं करोति।

सः सूचितवान् यत् देशे ७०० अधिकाः जनपदचिकित्सालयाः तथा ५०० दिवसीयचिकित्सासुविधायुक्तानि कर्क-रोगकेन्द्राणि स्थापिताः सन्ति। एतदतिरिक्तं १९ राज्यकर्करोगसंस्थानानि २० तृतीयस्तरीयकर्करोगचिकित्सा-केन्द्राणि च सञ्चालनार्थम् अनुमोदितानि सन्ति। आयुष्मान् भारतयोजनायाः अन्तर्गतं पात्रपरिवाराणां कृते प्रतिवर्षं पञ्चलक्ष-रूप्यकाणि यावत् स्वास्थ्यबीमासुविधा अपि प्रदीयते।

उपराष्ट्रपतिः फरवरीमासे २०२६ तमे वर्षे प्रारब्धस्य राष्ट्रव्यापिनः एचपीवी-टीकाकरणाभियानस्य अपि उल्लेखं कृतवान्। सः अवदत् यत् अस्य अभियानस्य लक्ष्यं प्रायः १.२ कोटिकन्याभ्यः गर्भाशयग्रीवाकर्करोगस्य निवारणाय टीकाप्रदानम् अस्ति। अद्यावधि ५० लक्षाधिकानां कन्यानां टीकाकरणं कृतम् अस्ति। सः कर्करोगेन अन्याभिश्च गम्भीराभिः समस्याभिः सङ्घर्षं कुर्वद्भ्यः जनेभ्यः धैर्यं न त्यक्त्वा सकारात्मकचिन्तनं धारयितुं च आग्रहं कृतवान्।

राधाकृष्णन् कर्करोगरोगिणां परिचर्यायां परिवाराणां स्वयंसेवकानां च भूमिकाम् अपि महत्त्वपूर्णाम् अवदत्। सः उक्तवान् यत् रोगस्य कठिनकाले परिवारीजनाः रोगिभ्यः भावनात्मकम् अवलम्बनं, प्रोत्साहनं परिचर्यां च प्रददति। एतदर्थं ते बहुधा महत्त्वपूर्णान् व्यक्तिगतान् आर्थिकान् च त्यागान् अपि कुर्वन्ति। सः अवदत् यत् प्रतिभायाः उत्कृष्टतायां परिवर्तनाय निरन्तरम् अध्ययनम्, अभ्यासः, समर्पणं च आवश्यकम् अस्ति तथा अनुरागः कठिनसमये शक्तिरूपेण कार्यं कर्तुं शक्नोति।

उपराष्ट्रपतिः पुस्तकप्रकाशनस्य अवसरे डॉ. आनन्दा शङ्करजयन्तायै अभिनन्दनं प्रदाय आशां प्रकटितवान् यत् इदं पुस्तकं युवजनान् स्वप्रतिभायाः परिचयं प्राप्तुं तस्याः विकासं कर्तुं च प्रेरयिष्यति। कार्यक्रमे सङ्गीतनाटक-अकादम्याः अध्यक्षा डॉ. सन्ध्या पुरेचा, उषालक्ष्मी-स्तनकर्करोग-प्रतिष्ठानस्य अध्यक्षः डॉ. पी. रघुरामः, इन्दिरा गान्धी-राष्ट्रियकला-केन्द्रस्य सदस्यसचिवः डॉ. सच्चिदानन्द-जोशी च उपस्थिताः आसन्। एतेषां सह चिकित्सकाः, कर्करोगविशेषज्ञाः, कर्क-रोगमुक्ताः जनाः च कार्यक्रमे भागं गृहीतवन्तः।

Hindusthan Samachar / Divya Ranjan