महिला-सशक्तीकरणं सुदृढराष्ट्रस्य आधारं मन्यते स्म ‘मिसाइलमैन’ डॉ. ए.पी.जे. अब्दुलकलामः
— पूर्वराष्ट्रपतेः डॉ. ए.पी.जे. अब्दुलकलामस्य जयन्त्यवसरे (१५ अक्टोबर, १९३१) विशेषलेखः — डॉ. लोकेशकुमारचन्देलः डॉ. ए.पी.जे. अब्दुलकलामः ‘भारतस्य मिसाइलमैन’ तथा ‘जनतायाः राष्ट्रपतिः’ इति नामभ्यां प्रसिद्धः अस्ति। सः वदति स्म— स्वप्नानि तानि न भवन्
डॉक्टर लोकेश


— पूर्वराष्ट्रपतेः डॉ. ए.पी.जे. अब्दुलकलामस्य जयन्त्यवसरे (१५ अक्टोबर, १९३१) विशेषलेखः

— डॉ. लोकेशकुमारचन्देलः

डॉ. ए.पी.जे. अब्दुलकलामः ‘भारतस्य मिसाइलमैन’ तथा ‘जनतायाः राष्ट्रपतिः’ इति नामभ्यां प्रसिद्धः अस्ति। सः वदति स्म— स्वप्नानि तानि न भवन्ति, यानि निद्रायां पश्यामः; अपितु तानि भवन्ति, यानि अस्मान् निद्रां कर्तुम् अपि न अनुमन्यन्ते। यदि सूर्यवत् प्रकाशयितुम् इच्छथ, तर्हि प्रथमं सूर्यवत् तप्तुं शिक्षितव्यम्। तस्य जन्म १९३१ तमस्य वर्षस्य अक्टोबरमासस्य १५ दिनाङ्के तमिलनाडुराज्यस्य रामेश्वरम्-नगरे अभवत्। सः भारतस्य एकादशः राष्ट्रपतिः, महान् वायु-अन्तरिक्षवैज्ञानिकः तथा यूनां प्रमुखः प्रेरणास्रोतः आसीत्। सः तादृशः शिक्षकः आसीत्, यस्य जीवनस्य अन्तिमक्षणः अपि छात्रान् पाठयन् एव व्यतीतः।

तस्य पूर्णं नाम अवुलपाकिरजैनुलाब्दीन् अब्दुलकलामः आसीत्। बालकेषु छात्रेषु च तस्य विशेषः स्नेहः आसीत्। अतः तस्य जयन्ती ‘विश्वछात्रदिवसः’ इत्यपि आचर्यते। सः भारतीयान्तरिक्षानुसन्धानसङ्घटने तथा रक्षानुसन्धानविकाससङ्घटने कार्यं कुर्वन् देशस्य प्रथमस्य स्वदेशीयस्य उपग्रहप्रक्षेपणयानस्य निर्माणे तथा विविधेषु क्षेपणास्त्रकार्यक्रमेषु महत्त्वपूर्णं योगदानम् अयच्छत्। १९९७ तमे वर्षे सः भारतस्य सर्वोच्चेन नागरिकसम्मानेन ‘भारतरत्न’ इत्यनेन सम्मानितः।

रक्षानुसन्धानविकाससङ्घटने कार्यं कुर्वन् सः ‘अग्नि’ तथा ‘पृथ्वी’ इत्यादीनां प्रक्षेपास्त्राणां विकासे महत्त्वपूर्णां भूमिकाम् अवहत्। एतेन एव सः ‘मिसाइलमैन’ इति उपाधिना प्रसिद्धः अभवत्। २००२ तः २००७ पर्यन्तं राष्ट्रपतिपदे कार्यं कुर्वन् तस्य सरलस्वभावः, बालकैः युवभिश्च सह निकटसम्बन्धः तथा सादा जीवनशैली च तं ‘जनतायाः राष्ट्रपतिः’ इति ख्यातिम् अनयन्।

भारतीयान्तरिक्षानुसन्धानसङ्घटने कार्यं कुर्वन् सः भारतस्य प्रथमस्य स्वदेशीयस्य उपग्रहप्रक्षेपणयानस्य विकासकार्यस्य नेतृत्वम् अकरोत्। १९९८ तमे वर्षे पोखरण-द्वितीयपरमाणुपरीक्षणे अपि तस्य महत्त्वपूर्णा भूमिका आसीत्। ‘इण्डिया २०२०’ तथा ‘प्रौद्योगिकी-दृष्टिः २०२०’ इत्यादीनां माध्यमेन सः भारतं विकसितराष्ट्रं कर्तुं मार्गचित्रम् प्रस्तुतवान्। ‘विङ्ग्स् ऑफ् फायर’ तथा ‘इग्नाइटेड् माइण्ड्स्’ इत्यादीनि प्रेरणादायकानि पुस्तकानि अपि तेन लिखितानि। युवानां प्रेरणायै सः स्वजीवनं शिक्षणकार्याय समर्पितवान्। ‘भारतरत्न’ (१९९७) इत्यस्य अतिरिक्तं सः १९९० तमे वर्षे ‘पद्मविभूषण’ तथा १९८१ तमे वर्षे ‘पद्मभूषण’ इति सम्मानेनापि सम्मानितः।

तस्य मतम् आसीत् यत् कस्यापि राष्ट्रस्य भविष्यस्य आधारशिला तस्य कक्ष्याप्रकोष्ठेषु स्थाप्यते। प्राथमिकशिक्षायां सृजनात्मकतायाः ज्ञानस्य च संवर्धनम् अत्यावश्यकम्। असफलताभ्यः कदापि न भेतव्यम्, यतः असफलताः एव अग्रे सफलतायै नवीनान् विचारान् ददति। सुन्दरस्य भ्रष्टाचारमुक्तसमाजस्य निर्माणे परिवारस्य महत्त्वपूर्णा भूमिका भवति। अस्मिन् विषये मातापित्रोः शिक्षकाणां च महान् दायित्वम् अस्ति यत् ते बालकेषु सदाचारान् उत्तमान् संस्कारांश्च स्थापयेयुः। प्रसन्नतया जीवनस्य प्रमुखः मन्त्रः अस्ति— आशां स्वस्मिन् एव स्थापयेत्, अन्यस्मिन् कस्मिंश्चित् जने न।

तस्य मतानुसारं शिक्षायाः उद्देश्यं केवलं वृत्तिप्राप्तिः अथवा उपाधिप्राप्तिः न, अपितु उत्तमस्य संवेदनशीलस्य च मानवस्य निर्माणम् अस्ति। सः मन्यते स्म यत् सा एव शिक्षा वास्तविकशिक्षा, या छात्रेषु मानवीयमूल्यानि, अनुशासनम्, सत्यनिष्ठां चरित्रविकासं च जनयति। तस्य विचारः आसीत् यत् राष्ट्रस्य भविष्यस्य आधारशिला सभागारेषु न, अपितु कक्ष्याप्रकोष्ठेषु स्थाप्यते। उत्तमा शिक्षाप्रणाली सा भवति, या बालकेषु नवीनविषयान् ज्ञातुं जिज्ञासां, प्रश्नान् प्रष्टुं क्षमतां तथा सृजनशीलतां च वर्धयति। सः इच्छति स्म यत् शिक्षा युवानः केवलं ‘वृत्त्यन्वेषकाः’ न कुर्यात्, अपितु तान् ‘वृत्तिप्रदातारः’ उद्यमिनश्च कुर्यात्।

सः स्वं शिक्षकत्वेन परिचितुं सर्वाधिकं रोचयति स्म। तस्य मते शिक्षकस्य कार्यं बालकानां क्षमतानाम् अन्वेषणं कृत्वा तान् प्रेरयितुम् अस्ति। सः बाल्यादेव बालकेषु वैज्ञानिकदृष्टेः, कौशलविकासस्य तथा प्रौद्योगिक्याः अवबोधस्य च सुदृढीकरणे बलम् अददात्। तस्य विश्वासः आसीत् यत् महाविद्यालयस्य विश्वविद्यालयस्य वा उपाधितः अपि अधिकं महत्त्वपूर्णा सा आधारभूता मूल्याधारिता च शिक्षा अस्ति, या बालकः बाल्यकाले प्राप्नोति।

डॉ. कलामस्य धर्मस्य अध्यात्मनश्च विषये विचाराः अत्यन्तम् उदाराः, समावेशिनः मानवतावादिनश्च आसन्। सः सच्चरित्रः मुसलमानः आसीत्। नियमितरूपेण नमाजं पठति स्म, उपवासं च करोति स्म तथा कुरानग्रन्थस्य अध्ययनम् अपि अकरोत्। तथापि सः सर्वेषां धर्माणां समानरूपेण सम्मानम् अकरोत्। तस्य मतम् आसीत् यत् व्यक्तिगतश्रद्धा धर्मश्च स्वस्वस्थाने स्तः, किन्तु राष्ट्रस्य विषये चर्चा भवति चेत् अस्माकं सर्वश्रेष्ठ: परिचय: ‘भारतीयः’ इति भवितव्य:।

‘इग्नाइटेड् माइण्ड्स्’ इत्यादिषु पुस्तकेषु सः लिखितवान् यत् यावत् वयं धार्मिकपरिचयात् उपरि उत्थाय राष्ट्रं प्राथमिकतया न स्वीकरिष्यामः, तावत् विकसितभारतस्य स्वप्नं न साकारं भविष्यति। सः धर्मं जनानां संयोजनस्य माध्यमं मन्यते स्म, न तु विभाजनस्य। तस्य विचारः आसीत्— ‘महान्तः जनाः धर्मं मैत्रीस्थापनस्य साधनं मन्यन्ते, लघुमनस्काः तु तं कलहस्य शस्त्रं कुर्वन्ति।’

सः केवलम् इस्लामधर्मे एव सीमितः नासीत्। तेन भगवद्गीतायाः अध्ययनं कृतम्, वीणावादनं च अभ्यस्तम्। प्रमुखस्वामीमहाराजेन सह तस्य गाढः आध्यात्मिकसम्बन्धः आसीत्। वैज्ञानिककार्येषु संलग्नः सन् सः तिरुपतिमन्दिरम् अपि गच्छति स्म। तस्य दृष्टौ विज्ञानम् अध्यात्मं च एकस्य एव मुद्रायाः द्वे पार्श्वे आस्ताम्। तस्य मतम् आसीत् यत् सम्पूर्णा मानवता ब्रह्माण्डं च एकस्याः परमशक्तेः व्यवस्थायाः अङ्गानि सन्ति। सः सर्वदा इदम् एव शिक्षितवान् यत् मानवता एव सर्वश्रेष्ठः धर्मः अस्ति।

महिला-सशक्तीकरणस्य प्रबलः समर्थकः

डॉ. कलामः महिला-सशक्तीकरणस्य प्रबलः समर्थकः आसीत्। तस्य मतम् आसीत् यत् कस्यापि राष्ट्रस्य समाजस्य च तीव्रविकासाय महिलानां सशक्तीकरणम् आद्या आवश्यकता अस्ति। सः सर्वदा वदति स्म यत् यदा महिलाः सशक्ताः भवन्ति, तदा स्थिरः सुरक्षितः शान्तिपूर्णश्च समाजः सुनिश्चितः भवति। महिलानां सशक्तीकरणेन उत्तमपरिवारस्य, उत्तमसमाजस्य तथा अन्ततः सुदृढराष्ट्रस्य तीव्रविकासस्य मार्गः प्रशस्तः भवति।

तस्य मतानुसारं संसदः विधानसभानां च महिलानां पर्याप्तं प्रतिनिधित्वं भवितव्यम्, यतः तासां कार्यशैली मूल्यव्यवस्था च राष्ट्रं सम्यग्दिशि नेतुं शक्नुतः। महिलानां शिक्षया न केवलं तासां जीवनस्य सुधारः भवति, अपितु समाजे जागरूकतायाः विस्तारः अपि भवति तथा जनसङ्ख्यावृद्धेः नियन्त्रणाय अपि सहायता लभ्यते।

सः कृषिक्षेत्रे, हस्तशिल्पे तथा उद्योगेषु महिला-उद्यमिनीनां प्रोत्साहनस्य पक्षधरः आसीत्, येन ताः आर्थिकरूपेण आत्मनिर्भराः भवितुं शक्नुयुः। सः नारीं परमात्मनः सुन्दरतमां रचनां मन्यते स्म। स्वजीवने सः द्वे महिलें स्वस्य प्रमुखे मार्गदर्शिके प्रेरणास्रोतसी च इति अवदत्। ताभ्यां सः सरलतां, निःस्वार्थप्रेम च शिक्षितवान्।

समग्रतया वक्तुं शक्यते यत् डॉ. ए.पी.जे. अब्दुलकलामस्य जीवनं बालकानां, महिलानां वैज्ञानिकानां च कृते प्रेरणायाः अक्षयः स्रोतः अस्ति।

(लेखकः स्वतन्त्रपत्रकारः अस्ति।)

Hindusthan Samachar / Divya Ranjan