Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ अक्टोबरमासः (हि.स.)। निर्वाचनायोगेन सप्तदशसु राज्येषु केन्द्रशासितप्रदेशेषु च मतदातृसूच्याः विशेषसंक्षिप्तपुनरीक्षणस्य निर्देशाः प्रदत्ताः। अस्य अन्तर्गतं २०२७ तमवर्षस्य जनवरीमासस्य प्रथमदिनाङ्कम् अर्हता-तिथिरूपेण स्वीकृत्य मतदातृसूच्याः संशोधनं करिष्यते। अपि च, २०२७ तमवर्षस्य अन्यासां तिसृणाम् अर्हताति-थीनां कृतेऽपि पूर्वमेव आवेदनानि स्वीक्रियन्ते।
निर्वाचनायोगेन एतेषां राज्याणां मुख्यनिर्वाचनाधिकारिभ्यः पत्रं सम्प्रेष्य निर्देशाः प्रदत्ताः। अस्य विशेषसंक्षिप्त-पुनरीक्षणस्य उद्देश्यं मतदातृसूच्यां समावेशात् वञ्चितानां पात्रनागरिकाणां, युवजनानां तथा प्रथमवारं मतदानाय योग्यतान् प्राप्तानां नागरिकाणां पञ्जीकरणं सुनिश्चितं कर्तुम् अस्ति। अस्मिन् अण्डमान-निकोबार-द्वीपसमूहः, असम-बिहार-छत्तीसगढ-गोवा-गुजरात-केरल-लक्षद्वीप-मध्यप्रदेश-मणिपुर-पुडुचेरी-पञ्जाब-राजस्थान-तमिलनाडु-उत्तरप्रदेश-उत्तराखण्ड-पश्चिमबङ्गाल-इत्येते समाविष्टाः सन्ति।
आयोगेन पत्रे लिखितं यत् २०२६ तमवर्षस्य सेप्टेम्बरमासस्य २९ दिनाङ्के निर्गतानां निर्देशानां क्रमे एषः निर्णयः स्वीकृतः। अस्य अन्तर्गतं २०२७ तमवर्षस्य एप्रिलमासस्य प्रथमदिनाङ्कस्य, जुलाई-मासस्य प्रथमदिनाङ्कस्य तथा अक्टोबर-मासस्य प्रथमदिनाङ्कस्य अर्हतातिथीनां कृतेऽपि पात्रनागरिकेभ्यः पूर्वमेव आवेदनानि स्वीक्रियन्ते। आयोगेन उक्तं यत् हिमाचलप्रदेशे, जम्मू-कश्मीरे तथा लद्दाखे अद्यापि विशेषगहन-पुनरीक्षणस्य कार्यारम्भः न कृतः। तत्रत्याः ऋतुपरिस्थितीः ध्याने निधाय पुनरीक्षणस्य कार्यक्रमः उचितसमये उद्घोषयिष्यते।
कार्यक्रमानुसारं मतदानकेन्द्राणां युक्तीकरणं पुनर्व्यवस्थापनं च २०२६ तमवर्षस्य नवम्बरमासस्य द्वितीय-दिनाङ्कपर्यन्तं सम्पूर्णं करिष्यते। समेकितप्रारूपमतदातृसूच्याः प्रकाशनं नवम्बरमासस्य द्वादशदिनाङ्के भविष्यति। ततः दावान् आक्षेपान् च प्रस्तोतुं नवम्बर-मासस्य द्वादशदिनाङ्कात् डिसेम्बरमासस्य एकादशदिनाङ्कपर्यन्तं समयः प्रदास्यते। कथनानाम् आक्षेपाणां च निस्तारणं डिसेम्बरमासस्य अष्टाविंशतितम-दिना-ङ्कपर्यन्तं सम्पूर्णं करिष्यते। अन्तिम-मतदातृसूच्याः प्रकाशनं च २०२७ तमवर्षस्य जनवरीमासस्य चतुर्थदिनाङ्के भविष्यति।
Hindusthan Samachar / Divya Ranjan