Enter your Email Address to subscribe to our newsletters

— मन्त्रिणा सारङ्गेन सज्जतायाः समीक्षां कृत्वा अधिकारिभ्यः आवश्यकाः निर्देशाः प्रदत्ताः।
भोपालम्, १५ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य इतिहासे प्रथमवारं भोपाल-नगरे २०२७ तमवर्षस्य जनवरीमासस्य १५ दिनाङ्के भारतीय-सेनायाः गौरवपूर्णः राष्ट्रियस्तरीयः समारोहः आयोजयिष्यते। एषः प्रदेशस्य कृते ऐतिहासिकी उपलब्धिः गौरवस्य च अवसरः भविष्यति। भारत हेवी इलेक्ट्रिकल्स लिमिटेड् क्षेत्रे भव्यस्य सैनिकसञ्चलनस्य, जम्बूरीप्राङ्गणे अत्याधुनिकसैन्योपकरणानां प्रदर्शनस्य, बृहत्तडागे च एकीकृतयुद्धप्रदर्शनस्य माध्यमेन सेनायाः पराक्रमः सामर्थ्यं च द्रष्टुं शक्यते।
प्रदेशस्य क्रीडायुवकल्याणमन्त्री विश्वासः कैलाशः सारङ्गः अवदत् यत् अयं समारोहः देशस्य वीरसैनिकानाम् अदम्यसाहसस्य, पराक्रमस्य, अनुशासनस्य, राष्ट्रं प्रति च तेषाम् अविचलसमर्पणस्य साक्षात्कारस्य अवसरं प्रदास्यति। तेन सह नागरिकेषु राष्ट्रभक्तेः, सैन्यसेवाः प्रति सम्मानस्य, देशस्य सुरक्षां प्रति जागरूकतायाश्च भावः सुदृढः भविष्यति। भारतीयसेनादिवसस्य राष्ट्रियसमारोहस्य सज्जतां प्रति गुरुवासरे मन्त्रिणा सारङ्गेन टीटी-नगरक्रीडाङ्गण-स्थिते मेजरध्यानचन्दसभागारे उच्चस्तरीया सभा आयोजिता।
सभायां भारतीयसेनायाः वरिष्ठाधि-कारिभिः, क्रीडायुवकल्याणविभागस्य, संस्कृतिविभागस्य अन्येषां च सम्बन्धितविभागानाम् अधिकारिभिः सह आयोजनस्य सज्जतायाः विस्तृतसमीक्षा कृता। मन्त्रिणा सर्वेभ्यः सम्बन्धिताधि-कारिभ्यः परस्परसमन्वयेन निर्धारितसमये सज्जताः पूर्णाः कर्तुं निर्देशाः प्रदत्ताः। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः राष्ट्रियसैन्यसमारोहान् नवदिल्ली-नगरात् बहिः देशस्य विभिन्नेषु भागेषु आयोजयितुं दृष्टिकोणम् अनुसृत्य भारतीयसेनया भोपालनगरे सेनादिवस-समारोहस्य आयोजनस्य ऐतिहासिकः निर्णयः कृतः। अस्य आयोजनस्य प्रमुखं विषयवस्तु - “भवतः सेना—भवतः समीपे” इति निर्धारिता अस्ति। एषा भारतीयसेनायाः सामान्यनागरिकाणां च मध्ये आत्मीय-सम्बन्धं अधिकं सुदृढं करिष्यति।
भोपालस्य विभिन्नेषु स्थलेषु भारतीय-सेनायाः सामर्थ्यस्य प्रदर्शनम्
ज्ञापितं यत् सेनादिवसः-२०२७ इत्यस्य अवसरे भोपालस्य विभिन्नेषु प्रमुखस्थलेषु मुख्यसञ्चलनेन सह अनेके भव्याः रोमाञ्चकाः च कार्यक्रमाः भविष्यन्ति। बीएचईएल-स्थिते कालीबाडीमार्गे मुख्य-सैन्यसञ्चलनम् आयोजयिष्यते। अस्मिन् सञ्चलने भारतीयसेनायाः अनुशासितानां सैनिकदलानां सैन्यसामर्थ्यस्य च भव्यं प्रदर्शनं भविष्यति।
भोपालस्य टीटी-नगरक्रीडाङ्गणे ‘रण-हुंकार’ इति शौर्यसन्ध्यायाः आयोजनं भविष्यति। अस्मिन् देशभक्तिप्रधानाभिः प्रस्तुतिभिः सह मध्यप्रदेशस्य समृद्धायाः सांस्कृतिक्याः जनजातीयायाश्च परम्परायाः प्रदर्शनमपि भविष्यति। आडाखडा-भगोरिया इत्यादीनि पारम्परिकानि लोकनृत्यानि अस्य कार्यक्रमस्य प्रमुखाकर्षणानि भविष्यन्ति।
जम्बूरीप्राङ्गणे भारतीयसेनायाः अत्या-धुनिकसैन्योपकरणानां स्थिरं गतिशीलं च प्रदर्शनं भविष्यति। नागरिकेभ्यः आधुनिकसैन्यप्रणालीः समीपतः द्रष्टुं तासां कार्यक्षमतां सञ्चालनप्रक्रियां च अवगन्तुं अवसरः प्राप्स्यते। तथैव बृहत्तडागस्य वीआईपी-बोटक्लबक्षेत्रे एकीकृतयुद्ध-प्रदर्शनस्य माध्यमेन भारतीयसेनायाः सामरिक-क्षमतायाः, रणनैतिककौशलस्य, सम-न्वितसैन्यकार्यवाहीणां च प्रदर्शनं भविष्यति।
सेनादिवससम्बद्धाः प्रमुखाः कार्यक्रमाः तिथयश्च
२०२६ तमवर्षस्य नवम्बरमासस्य प्रथमदिनाङ्कात् (मध्यप्रदेशस्थापना-दिवसात्) ‘मेरी माटी’ अभियानस्य आरम्भः भविष्यति। अस्य अभियानस्य अन्तर्गतं विभिन्नेभ्यः जनपदेभ्यः मृत्तिका सङ्गृह्य शौर्यस्मारके सङ्कल्पवृक्षः आरोपयिष्यते।
सेनादिवससम्बद्धानां कार्यक्रमाणाम् आरम्भः २०२७ तमवर्षस्य जनवरीमासस्य नवमदिनाङ्कात् भविष्यति। जनवरी-मासस्य ९ तः १२ दिनाङ्कपर्यन्तं बृहत्तडागे, अटलपथे, जम्बूरीप्राङ्गणे च सैन्योप-करणानां प्रदर्शिनी, प्रत्यक्ष-प्रदर्शनानि, विमानप्रदर्शनानि, जलक्रीडाश्च आयो-जयिष्यन्ते।
जनवरीमासस्य १५ दिनाङ्के सेनादिवसस्य मुख्यसञ्चलनं भोपालस्य भेलक्षेत्रे कालीबाडीमार्गे भविष्यति। तस्मिन्नेव दिने सायंकाले टीटी-नगरक्रीडाङ्गणे देश-भक्तिप्रधानायाः शौर्यसन्ध्यायाः ‘रणहुंकार’ इत्यस्य आयोजनं भविष्यति।
भोपालनगरे आयोज्यमानः अयं राष्ट्रियसमारोहः अन्यस्मादपि कारणात् विशेषमहत्त्वपूर्णः अस्ति, यतः सेनादिवसस्य सञ्चलनं केवलं सैनिकछावनी इत्यत्र सीमितः न भविष्यति, अपितु नगरस्य सार्वजनिकस्थले आयोजयिष्यते। सेनायाः विभिन्नानि सैनिकदलानि, युद्धयानानि, दूरनियन्त्रितानि विमानानि, अत्याधुनिक-सैन्यप्रणाल्यश्च प्रदर्शयिष्यन्ते। एतेन नागरिकेभ्यः भारतीयसेनायाः कार्य-प्रणालीं, आधुनिकप्रौद्योगिकीं, सामरिक-क्षमतां च समीपतः ज्ञातुं अवसरः प्राप्स्यते।
सभायां क्रीडायुवकल्याणविभागस्य सञ्चालकः चञ्चलशेखरः, संस्कृति-विभागस्य सञ्चालकः एन.पी. नामदेवः, क्रीडायुवकल्याणविभागस्य अपरसचिवः अजयश्रीवास्तवः, भारतीयसेनायाः पश्चिम-मध्यप्रदेश-उपक्षेत्रस्य मेजरजनरलः विकासलालः, कर्नलः सुब्रतमिश्रः अन्ये च सम्बन्धिताधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan