Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ अक्टोबरमासः (हि.स.)। भारतेन अमेरिकादेशस्य इलिनॉय-राज्ये हिन्दुमन्दिरं प्रति गोलिकाप्रहारस्य विफलीकृतप्रयासस्य घटनायां गभीरा चिन्ता प्रकटिता। अमेरिकीप्रशासनं च स्वदेशे वर्धमानां जातीयविद्वेषभावनां भारतविरोधिद्वेषं च निरोद्धुं निर्णायककार्यवाहीं कर्तुं आग्रहः कृतः।
विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः अमेरिकादेशस्य इलिनॉय-राज्ये स्थिते हिन्दुमन्दिरे गोलिकाप्रहारस्य षड्यन्त्रसम्बद्धायां घटनायां सञ्चारमाध्यमैः पृष्टानां प्रश्नानाम् उत्तरं ददन् गुरुवासरे अवदत् यत् अस्याः घटनायाः हिन्दुविरोधी जातिवादी च स्वरूपं चिन्ताजनकम् अस्ति। अनेन अमेरिकादेशे जातीयशत्रुतायाः भारतविरोधिद्वेषस्य च वर्धमानचिन्ताः अधिकाः अभवन्। अतः अस्मिन् विषये अधिकसावधानतायाः निर्णायककार्यवाहीयाश्च आवश्यकता वर्तते।
इलिनॉय-राज्यस्य ऑरोरा-क्षेत्रे स्थिते हिन्दुमन्दिरे सामूहिकगोलिकाप्रहारस्य षड्यन्त्रसम्बन्धेन एकोनविंशतिवर्षीयः एलेक्जेण्ड्रोस् पापोराकिस् नामकः युवकः निगृहीतः अस्ति। अस्य युवकस्य विरुद्धं आतङ्कवादीधमकीप्रदानस्य अवैधरूपेण राइफलशस्त्रधारणस्य च अभियोगाः स्थापिताः सन्ति।
प्रवक्ता अवदत् यत् इलिनॉय-राज्यस्य ऑरोरा-क्षेत्रे स्थितं हिन्दुमन्दिरं लक्ष्यीकृत्य सामूहिकगोलिकाप्रहारस्य कथितषड्यन्त्रस्य समाचारैः वयं अत्यन्तं चिन्तिताः स्मः। अस्य षड्यन्त्रस्य हिन्दुविरोधि जातिवादी च स्वरूपं विशेषतया चिन्ताजनकम् अस्ति। तेन उक्तं यत् एषा घटना अमेरिकादेशे जातीयशत्रुतायाः भारतविरोधिद्वेषस्य च वर्धमानचिन्ताः अधिकगम्भीराः करोति।
प्रवक्ता अवदत् यत् भारतीयसमुदायस्य सुरक्षां सुनिश्चितुं अधिकसावधानता, द्वेषप्रेरितहिंसाप्रति शून्यसहिष्णुता, निर्णायककार्यवाही च आवश्यकी अस्ति। अस्माकम् अपेक्षा अस्ति यत् अमेरिकी-अधिकारिणः अस्य प्रकरणस्य गहनम् अन्वेषणं कुर्युः, दोषिणः न्यायालयस्य समक्षम् उपस्थापयेयुः, एतादृशीनां घटनानां निवारणाय च सर्वान् आवश्यकान् उपायान् स्वीकरिष्यन्ति।
Hindusthan Samachar / Sachin Budhauliya