मध्यप्रदेशे राष्ट्रिययुवशिबिरे समागतैः षड्राज्यानां युवभिः साञ्चीस्तूपस्य भोपालनगरस्य प्रमुखसङ्ग्रहालयानां च भ्रमणं कृतम्
भारतीयेतिहासं, स्थापत्यकलां, जन-जातीयसंस्कृतिं सांस्कृतिकवैभवं च निकटतः ज्ञातवन्तः युवानः; सांस्कृतिक-प्रस्तुतिभिः वातावरणं मनोहरम् अभवत्। भोपालम्, १५ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे वन्देमातरम् इत्यस्य सार्धैकशतवर्ष-पूर्
सांची स्तूप के साथ युवाओं की सामूहिक तस्वीर


- भारतीयेतिहासं, स्थापत्यकलां, जन-जातीयसंस्कृतिं सांस्कृतिकवैभवं च निकटतः ज्ञातवन्तः युवानः; सांस्कृतिक-प्रस्तुतिभिः वातावरणं मनोहरम् अभवत्।

भोपालम्, १५ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे वन्देमातरम् इत्यस्य सार्धैकशतवर्ष-पूर्त्यवसरे आयोजिते राष्ट्रिययुवशिबिरे युवभिः गुरुवासरे साञ्चीस्तूपस्य भोपाल-नगरस्य प्रमुखसङ्ग्रहालयानां च भ्रमणं कृतम्।

भ्रमणकाले युवभिः विश्वप्रसिद्धस्य साञ्ची-स्तूपस्य ऐतिहासिकं महत्त्वं, स्थापत्यकलां कलात्मकविशेषताश्च निकटतः अव-लोकिताः। प्रतिभागिभिः स्तूपस्य विशालं गुम्बदं, हर्मिकां, शीर्षस्थच्छत्राणि तथा प्रवेशद्वारेषु उत्कीर्णाः कलाकृतयश्च दृष्टाः। तोरणद्वारेषु उत्कीर्णाः जातककथाः भगवान् बुद्धस्य जीवन-सम्बद्धाः प्रसङ्गाश्च युवभ्यः भारतीय-कलायाः प्राचीनशिल्पपरम्परा-याश्च समृद्धिं परिचितवन्तः।

अनेन भ्रमणेन युवभ्यः पुस्तकेषु पठितम् इतिहासं प्रत्यक्षतः द्रष्टुं ज्ञातुं च अवसरः प्राप्तः। प्रतिभागिनः साञ्चीस्थायाः ऐतिहासिकपरम्परायाः संरक्षणस्य तस्याः सांस्कृतिकमहत्त्वस्य च विषये अपि सूचनां प्राप्तवन्तः।

साञ्चीभ्रमणानन्तरं युवभिः भोपालनगरे स्थितस्य मध्यप्रदेशजनजातीय-सङ्ग्रहा-लयस्य राष्ट्रियमानव-सङ्ग्रहालयस्य च भ्रमणं कृतम्। अत्र प्रतिभागिनः देशस्य विविधजनजातीनां पारम्परिकजीवनशैलीं, कलां, शिल्पं, मान्यताः सांस्कृतिक-परम्पराश्च निकटतः ज्ञातवन्तः। एतेषु सङ्ग्रहालयेषु प्रदर्शितैः विविधैः सांस्कृति-कस्वरूपैः युवभ्यः भारतस्य बहुवर्णीय-परम्परां विविधतायाम् एकतायाः भावनां च अवगन्तुम् अवसरः प्राप्तः। एषः अनुभवः युवभ्यः ज्ञानवर्धकः भवितुम् अतिरिक्तं देशस्य सांस्कृतिकमूलैः सह सम्बद्धतायाः महत्त्वपूर्णं माध्यमम् अपि अभवत्।

षड्-राज्यानां सांस्कृतिकप्रस्तुतिभिः एक-तायाः सन्देशः प्रदत्तः

राष्ट्रियवन्देमातरम्-युवशिबिरस्य अन्तर्गतं गुरुवासरे आयोजितासु सांस्कृतिक-गतिविधिषु विभिन्नराज्येभ्यः आगतैः युवप्रतिभागिभिः स्वक्षेत्रीय-संस्कृतिनां, लोकपरम्पराणां, कलात्मका-भिव्यक्तिनां च माध्यमेन भारतस्य सांस्कृतिकवैविध्यं प्रस्तुतम्। एताभिः प्रस्तुतिभिः प्रतिभागिभ्यः परस्परम् अन्येषां परम्पराः ज्ञातुं अवगन्तुं च अवसरः प्राप्तः। सांस्कृतिककार्यक्रमैः युवसु परस्पर-सौहार्दस्य, राष्ट्रियैकतायाः, पारस्परिक-सम्मानस्य, सांस्कृतिक-विनि-मयस्य च भावनाः प्रोत्साहिताः। शिबिरस्य गतिविधयः युवानः देशस्य विविध-परम्पराभिः सह संयोजयितुं तेषु राष्ट्रियगौरवभावनां च सुदृढां कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।

अधिकारिणां कर्मचारिणां च सहभागिता आसीत्

कार्यक्रमस्य सफलसञ्चालने ‘मेरा युवा भारत’ इत्यस्य मध्यप्रदेशराज्यस्य निदेशकः मङ्गलजाखडः, उपनिदेशिका मोनिकाचौधरी, रोहितयादवः, भोपालस्य उपनिदेशिका निक्कीराठौरः, सहायक-निदेशकः अभिषेकभारद्वाजः, जनपद-युवाधिकारी सागरवाधवानी, पल्लवीजैन, उमङ्गजैन, मयङ्कपाठकः, लेखाधिकारी चेतरामजाङ्गिडः, रिमीयादवः इत्येतेषां तथा अन्येषां विभागीयाधिकारिणां कर्मचारिणां च सहभागिता आसीत्।

कार्यक्रमस्य अन्ते कार्यक्रमस्य माध्यम-प्रभारी सागरवाधवानी आयोजने सम्बद्धेभ्यः अतिथिभ्यः, अधिकारिभ्यः, युवप्रतिभागिभ्यः, सांस्कृतिकप्रस्तुतिषु भागं गृहीतवद्भ्यः कलाकारिभ्यः, माध्यम-प्रतिनिधिभ्यश्च कृतज्ञतां प्रकटि-तवान्। राष्ट्रियवन्देमातरम्-युव-शिबिरस्य उद्देश्यम् युवानः भारतस्य गौरवशालिन्या ऐतिहासिकया सांस्कृति-कया च परम्परया सह संयोजयितुम्, राष्ट्रियैकतायाः विविध-तायाम् एकतायाश्च भावनां सुदृढां कर्तुम् तथा विकसित-भारतस्य २०४७ तमवर्षस्य लक्ष्यस्य प्राप्तये यूनां सक्रियसहभागितां प्रोत्साहितुम् अस्ति।

Hindusthan Samachar / Divya Ranjan