उत्तराखण्डस्य महाविद्यालयेषु प्राचार्याणां रिक्तपदेषु शीघ्रमेव पदोन्नतिः भविष्यति।
छात्रावासानां सञ्चालनाय सप्ताहाभ्यन्तरे मानकसञ्चालनप्रक्रियायाः निर्माणस्य निर्देशः देहरादूनम्, १५ अक्टोबरमासः (हि.स.)। उत्तराखण्डस्य राजकीयमहाविद्यालयेषु प्राचार्याणां रिक्तपदानि शीघ्रमेव पदोन्नत्या पूरयिष्यन्ते। एतदर्थं उच्चशिक्षाविभागाय विभाग
उच्च शिक्षा मंत्री डॉ. धन सिंह रावत शासकीय आवास पर विभागीय समीक्षा बैठक करते।


- छात्रावासानां सञ्चालनाय सप्ताहाभ्यन्तरे मानकसञ्चालनप्रक्रियायाः निर्माणस्य निर्देशः

देहरादूनम्, १५ अक्टोबरमासः (हि.स.)। उत्तराखण्डस्य राजकीयमहाविद्यालयेषु प्राचार्याणां रिक्तपदानि शीघ्रमेव पदोन्नत्या पूरयिष्यन्ते। एतदर्थं उच्चशिक्षाविभागाय विभागीयपदोन्नतिसमितेः (डीपीसी) प्रस्तावं शासनाय प्रेषयितुं निर्देशाः प्रदत्ताः। सहैव महाविद्यालयानां छात्रावासानां सञ्चालनाय सप्ताहाभ्यन्तरे मानकसञ्चालनप्रक्रियायाः (एसओपी) निर्माणं कर्तुं निर्दिष्टम्।

उच्चशिक्षामन्त्री डॉ. धनसिंह रावतः गुरुवासरे स्वकीयस्य शासकीयनिवासे आयोजितायां विभागीयसमीक्षोपवेशने एतान् निर्देशान् दत्तवान्। तेन उक्तं यत् प्रायः द्वादशाधिकद्विदश राजकीयमहाविद्यालयेषु प्राचार्यपदानि रिक्तानि सन्ति। एतेषु पदेषु पदोन्नतेः प्रक्रिया शीघ्रं सम्पूर्णा क्रियताम्, येन सम्बन्धितेषु महाविद्यालयेषु प्राचार्याणां नियुक्तिः कर्तुं शक्यते।

उच्चशिक्षामन्त्री छात्रावासानां सञ्चालनाय अद्यावधि मानकसञ्चालनप्रक्रियायाः निर्माणं न कृतम् इति विषये असन्तोषं प्रकटितवान्। तेन अधिकारिभ्यः सप्ताहाभ्यन्तरे प्रक्रिया सम्पूर्णां कृत्वा छात्रावासानां सुचारुसञ्चालनं सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः, येन छात्रेभ्यः छात्राभ्यश्च उत्तमाः सुविधाः प्राप्येरन्।

उपवेशने डॉ. रावतेन विभिन्नेषु महाविद्यालयेषु प्रचलतां निर्माणकार्याणां प्रगतेः समीक्षापि कृता। तेन राजकीयमहाविद्यालयेषु बेतालघाटे, पोखडायाम्, हल्द्वानीनगरे, देहरादूननगरे तथा बेरीनागे च निर्माणकार्येभ्यः प्राथमिकतायाः आधारेण धनराशेः विमोचनं कर्तुं निर्देशाः प्रदत्ताः। अन्येषां नवीनानां प्राचीनानां च निर्माणकार्याणाम् अपि शीघ्रं धनराशिः उपलब्धा कारयितुं निर्दिष्टम्।

उच्चशिक्षामन्त्रिणा महाविद्यालयेषु शैक्षणिकसंवर्गस्य शिक्षणेत्तरसंवर्गस्य च रिक्तपदेषु स्थायिनियुक्तिः यावत् न भवति, तावत् संविदाधारेण बहिःस्रोतमाध्यमेन च नियुक्तीः कर्तुं निर्देशाः प्रदत्ताः। तेन समर्थपोर्टलस्य सञ्चालनसम्बद्धानां समस्याणां शीघ्रं समाधानं कर्तुम् अपि उक्तम्।

उपवेशने अपरसचिवः मुनज गोयलः, संयुक्तसचिवः प्रदीप नौटियालः, उच्चशिक्षाविभागस्य प्रभारीनिदेशकः डॉ. ए.एस. उनियालः, उपसचिवः दीपक कुमारः, उपनिदेशिका डॉ. ममता नैथाणी, रूसा इत्यस्य नोडलाधिकारिणी डॉ. अनीता रावतः सहिताः विभागीयाधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani