Enter your Email Address to subscribe to our newsletters

—मेक इन इण्डिया तथा आत्मनिर्भरभारतस्य दिशि अन्यद् गौरवपूर्णम् उपलब्धिः
वाराणसी, १५ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थितं बनारसरेलइञ्जिननिर्माणकारखानम् (बरेका) स्वस्य उत्कृष्टोत्पादनक्षमतायाः तकनीकीदक्षतायाश्च परिचयं प्रददत् वित्तीयवर्षे २०२६-२७ तमे ५०तमस्य अमृतभारतस्य (पुश-पुल) रेलइञ्जिनस्य निर्माणं कृत्वा महत्त्वपूर्णाम् उपलब्धिम् अर्जितवान्।
अमृतभारतरलेभ्यः निर्मितानि पुश-पुल रेलइञ्जिनानि आधुनिकप्रौद्योगिक्या सुसज्जितानि सन्ति। रेलयानस्य उभयोः अग्रपश्चभागयोः रेलइञ्जिनानां स्थापनया परिचालने सुगमता भवति। अत्याधुनिकं रेलइञ्जिनचालककक्षम्, अर्धस्वचालितयोजकः, आघातसहिष्णुरचना तथा उन्नतब्रेकव्यवस्था इत्यादयः विशेषताः एतानि रेलइञ्जिनानि अधिकानि आधुनिकानि कुर्वन्ति।
महाप्रबन्धकः आशुतोष पन्तः गुरुवासरे अवदत् यत् बरेका इत्यस्य प्रत्येकं रेलइञ्जिनं भारतस्य औद्योगिकस्वावलम्बनस्य, नवाचारस्य तथा प्रौद्योगिकीयोत्कृष्टतायाः प्रतीकम् अस्ति। पुश-पुल रेलइञ्जिनानां निर्माणं ‘मेक इन इण्डिया’ तथा ‘आत्मनिर्भरभारत’ इत्येतयोः सङ्कल्पं सुदृढं करोति। तेन उक्तं यत् ४५३३६ तथा ४५३३७ सङ्ख्यके रेलइञ्जिने उत्तरपश्चिमरेलवे इत्यस्य जोधपुरनगरे भगत की कोठीस्थाय डीजलरेलइञ्जिनपरिचर्याकारखानाय प्रेषिते स्तः।
११,५३१ रेलइञ्जिनानां निर्माणस्य गौरवम्
बरेका इत्यनेन स्थापनादिनात् अद्यावधि समग्रतया ११,५३१ रेलइञ्जिनानि निर्मितानि, येषु ३,१९५ विद्युद्रेलइञ्जिनानि सन्ति। एषा उपलब्धिः भारतीयरेलस्य आधुनिकीकरणे स्वदेशीयोत्पादने च बरेका इत्यस्य महत्त्वपूर्णं योगदानं रेखाङ्कयति।
Hindusthan Samachar / Dheeraj Maithani