Enter your Email Address to subscribe to our newsletters

वाराणसी, 15 अक्टूबरमासः (हि.स.)। शारदीयनवरात्रस्य पञ्चमे दिने गुरुवासरे श्रीकाशीविश्वनाथधाम्नि भगवत्याः विधिवत् आराधना कृता। अस्मिन्नवसरे सम्पूर्णे दिने नवदुर्गासप्तशत्याः पाठः कृतः। अनुष्ठानस्य अनन्तरं शक्तिपीठस्य मातुः विशालाक्ष्याः मन्दिराय समर्पिता शृङ्गारसामग्री भगवान् श्रीविश्वेश्वराय अर्थात् बाबा विश्वनाथाय विधिविधानपूर्वकं समर्पिता।
श्रीकाशीविश्वनाथमन्दिरन्यासस्य अनुसारं धाम्नि श्रद्धया भक्तिभावेन च धार्मिकानुष्ठानानि सम्पन्नानि। अस्मिन् क्रमे जगज्जनन्याः दुर्गायाः स्तुतिः कृता तथा बाबा विश्वनाथस्य कृपाप्राप्तये मङ्गलकामना विहिता। मातुः विशालाक्ष्याः शृङ्गारार्थं समर्पितायाः सामग्र्याः बाबा विश्वनाथस्य चरणयोः समर्पणस्य परम्परया देवीदेवतान् प्रति श्रद्धायाः समर्पणभावस्य च अभिव्यक्तिः कृता।
नवरात्रस्य पावनावसरे आयोजितैः एतैः धार्मिकानुष्ठानैः श्रीकाशीविश्वनाथधाम्नः वातावरणं भक्तिमयं जातम्। भगवत्याः आराधनया, नवदुर्गासप्तशत्याः पाठेन तथा विधिवत्पूजनेन श्रद्धालवः दुर्गामातरं बाबा विश्वनाथं च प्रति स्वकीयाम् आस्थाम् अभिव्यक्तवन्तः।
-----------
Hindusthan Samachar / Dheeraj Maithani