Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 15 अक्टूबरमासः (हि.स.)।दुर्गापूजावसरे गुरुवासरे देहरादूननगरे स्थिते जलवायु टावर्स इत्यत्र सामूहिकशङ्खनादेन दुर्गामातुः स्वागतं कृतम्। दुर्गापूजासमितेः कल्चरल एसोसिएशन इत्यस्य च पक्षतः सामुदायिकपरिसरे आयोजिते कार्यक्रमे बहुसंख्यकाः जनाः भागं गृहीतवन्तः।
‘शङ्खनादेन मातुः स्वागतं’ इति कार्यक्रमः अपराह्णे त्रिवादने प्रारब्धः। अस्मिन् अवसरे सोसाइटीवासिनः एकत्र मिलित्वा शङ्खान् वादयित्वा दुर्गामातरम् आहूतवन्तः। ढाकवाद्यस्य तालैः घण्टानां निनादेन च सम्पूर्णः परिसरः भक्तिमयः अभवत्।
कार्यक्रमे रक्तश्वेतवर्णयोः पारम्परिकवस्त्रैः सुसज्जिताः महिलाः सामूहिकशङ्खध्वनौ भागं गृहीतवत्यः। बालकाः, युवानः, वृद्धाः च उत्साहपूर्वकम् आयोजने सहभागितां कृतवन्तः।
आयोजकैः सूचितं यत् अस्य कार्यक्रमस्य उद्देश्यम् सांस्कृतिकपरम्परायाः उत्तरवर्तिन्यै संतत्यै हस्तान्तरणेन सह समुदायस्य मध्ये परस्परैकतायाः भ्रातृभावस्य च सुदृढीकरणम् अस्ति। तैः उक्तं यत् एतादृशाः आयोजनाः पारम्परिकरीतिरिवाजानां संरक्षणाय तथा सांस्कृतिकगतिविधिषु महिलानां सहभागितायाः वर्धनाय प्रोत्साहनं यच्छन्ति। कार्यक्रमस्य समापनं ‘जय मातुर्दुर्गा’ इति जयघोषेण अभवत्। अस्मिन्नवसरे उपस्थिताः जनाः दुर्गामातरं सुखस्य, शान्तेः, समृद्धेश्च कामनां कृतवन्तः।
Hindusthan Samachar / Dheeraj Maithani